________________
श्री अनुयोगद्वारसूत्रम् [सू०७२,७३]
भावखंधे त्ति लब्भइ । सेतं नोआगमतो भावखंधे । से तं भावखंधे ।
(सू० ७२) तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति । तंजहागण काय निकाय खंध वग्ग रासी पुंजे य पिंड नियरे य ।
संघाय आकुल समूह भावखंधस्स पज्जाया ||५|| सेतं खंधे | (सू० ७३) आवस्सगस्स णं इमे अत्थाहिगारा भवंति । तं जहा - सावज्जजोगविरती १, उक्कित्तण २, गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४, वणतिगिच्छ ५, गुणधारणा ६ चेव ||६|| निषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । सेत्तमित्यादि निगमनम् । तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयति- सेतं भावखंधे ति ।
इदानीं त्वस्यैव एकार्थिकान्यभिधित्सुराह - तस्स णमित्यादि गतार्थं यावद् गण काय गाहा । व्याख्या-मल्लादिगणवद् गणः । पृथिवीकायादिवत् काय: । षड्जीवनिकायवन्निकायः । त्र्यादिपरमाणुस्कन्धवत् स्कन्धः । गोवर्गवद् वर्ग: । शालिधान्यादिराशिवद् राशि: । विप्रकीर्णपुञ्जीकृतधान्यादिपुञ्जवत् पुञ्जः । गुडादिपिण्डवत् पिण्डः । हिरण्यद्रव्यादिनिकरवन्निकरः । तीर्थादिषु संमिलितजनसङ्घातवत् सङ्घातः । राजगृहाङ्गणजनाकुलवदाकुल: । पुरादिजनसमूहवत् समूह: । एते भावस्कन्धस्य पर्यायाः वाचकध्वनय इति गाथार्थ: । सेतमित्यादि निगमनम् ।
आह - नन्वावश्यके किमिति षडध्ययनानि ? अत्रोच्यते, षडर्थाधिकारयोगात् । के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह- आवस्सगस्स णमित्यादि । आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथा सावज्जजोग गाहा । व्याख्या - प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिरर्थाधिकारः १ । उक्त्तिणत्ति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुद्धि हेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थकराणां गुणोत्कीर्तनाऽर्थाधिकारः । गुणवओ य पडिवत्ति त्ति, गुणा मूलोत्तरगुणरूपा व्रत- पिण्डविशुद्ध्यादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्ति: वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः । चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्ति: कर्तव्येति द्रष्टव्यम् । उक्तं च
-
Jain Education International
परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउं ।
कारणजाए जाए जहारिहं जस्स जं जोगं || १ || (आवश्यकनि० ११२८ ) ति ३ | खलियस्स निंदण त्ति स्खलितस्य मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्ध्यमानाध्यवसायस्याऽकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः ४ । वणतिगिच्छ
५९
For Private & Personal Use Only
www.jainelibrary.org