________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं देसे उवचिए। सेतं अणेगदवियखंधे। सेतं जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे । सेतं नोआगमतो दव्वखंधे । सेतं दव्वखंधे ।
(सू० ६९) से किं तं भावखंधे ? भावखंधे दुविहे पण्णत्ते । तंजहा- आगमतो य १, नोआगमतो य २।
(सू० ७०) से किं तं आगमतो भावखंधे ? आगमतो भावखंधे जाणए उवउत्ते । सेतं आगमतो भावखंधे।
(सू० ७१) से किं तं नोआगमओ भावखंधे ? नोआगमओ भावखंधे एएसिं चेव सामाइयमाइयाणं छण्हं अज्झायणाणं समुदयसमिइसमागमेणं निप्पन्ने आवस्सगसुयक्खंधे प्रदेशैर्विरहितो यश्च तस्यैव देश: पृष्ठोदर-चरणादिलक्षण उपचितो जीवप्रदेशाप्त इत्यर्थः तयोर्यथोक्तदेशयोर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्य: समुदाय: सोऽनेकद्रव्यस्कन्ध इति विशेष:, सचेतनाचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूत: सामर्थ्यात्तुरगादिस्कन्ध एव प्रतीयते । यद्येवं करनस्कन्धादस्य को विशेष इति चेत्, उच्यते-स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो
जीवप्रदेशाव्याप्तनखाद्यपेक्षयाऽपि, अयं तु नखाद्यपेक्षयाऽपीति विशेष: । पूर्वोक्तमिश्रस्कन्धादस्य नर्हि को विशेष इति चेत्, उच्यते-तत्र खड्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । सेत्तमित्यादि निगमनम् । तदेवमुक्तो जशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमतो द्रव्यस्कन्धविचार:, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति ।
अथ भावस्कन्धनिरूपणार्थमाह - से किं तमित्यादि । अत्रोत्तरम्- भावखंधे दुविहे इत्यादि । भावश्चासौ स्कन्धश्च भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविध: प्रज्ञप्त:, तद्यथा - आगमतश्च नोआगमतश्च, तत्रागमत: स्कन्धपदार्थज्ञस्तत्र चोपयुक्तस्तदुपयोगानन्यत्वाद् भावस्कन्धः । नोआगमतस्तु एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदाय: । स च तेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव स्यादत उच्यते- समुदयस्य समिति: नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापिताय:शलाकानामिव परस्परनिरपेक्षाणामपि स्यादत उच्यतेतस्या: समुदयसमितेर्य: समागम: परस्परं सम्बद्धतया विशिष्टैकपरिणाम: समुदयसमिति-समागमस्तेन निष्पन्नो य आवश्यकश्रुतस्कन्धः स भावस्कन्ध इति लभ्यते प्राप्यते, भवति इति हृदयम् । इदमुक्तं भवति-सामायिकादिषडध्ययनसंहतिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिका-रजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्धः, नोशब्दस्य देशे आगम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org