________________
श्रीअनुयोगद्वारसूत्रम् [सू०६७,६८]
(सू० ६७) से किं तं अकसिणखंधे ? अकसिणखंधे से चेव दुपएसियादी खंधे जाव अणंतपदेसिए खंधे । से तं अकसिणखंधे।।
(सू० ६८) से किं तं अणेगदवियखंधे ? अणेगदवियखंधे तस्सेव देसे अवचिते तस्सेव शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासङ्ख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम्, यदि हि जीवप्रदेश-पुद्गलसमुदाय: सामस्त्येन वर्द्धत तदा स्याद् ग़जादिस्कन्धस्य बृहत्त्वम्, तच्च नास्ति, समुदायवृद्ध्यभावात्, तस्मादितरेतरापेक्षया जीवप्रदेश-पुद्गलसमुदायस्य हीनाधिक्याभावात् २१सर्वेऽपि हयादिस्कन्धा: परिपूर्णत्वात् कृत्स्नस्कन्धाः। अन्ये तु पूर्वं सचित्तस्कन्धविचारे जीव-तदधिष्ठितशरीरावयवसमुदाय: सचित्तस्कन्धः, अत्र तु शरीरात् बुद्ध्या पृथक्कृत्य जीव एव केवल: कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते । अत्र च व्याख्याने प्रेर्यमेव नास्ति, हय-गजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन । सेत्तमित्यादि निगमनम् । ___ अथाकृत्स्नस्कन्धनिरूपणार्थमाह- से किं तमित्यादि। अत्रोत्तरम्- अकसिणखंधे से चेवेत्यादि, न कृत्स्नोऽकृत्स्नः, स चासौ स्कन्धश्चाकृत्स्नस्कन्धः, यस्मादन्योऽपि बृहत्तर: स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह-से चेवेत्यादि, स एव दुपदेसिए खंधे तिपदेसिए खंधे इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नस्कन्ध इत्यर्थः द्विप्रदेशिकस्य त्रिप्रदेशिकापेक्षयाऽकृत्स्नत्वात् त्रिप्रदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्स्नत्वाद् एवं तावद्वाच्यं यावत् कात्यू नापद्यत इति । पूर्वं द्विप्रदेशिकादि: सर्वोत्कृष्टप्रदेशश्च स्कन्ध: सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । सेत्तमित्यादि निगमनम्।
अथानेकद्रव्यस्कन्धनिरूपणार्थमाह - से किं तमित्यादि । अत्रोत्तरम् - अणेगदवियखंधे तस्सेवेत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्सेवेत्यत्रानुवर्तमानं स्कन्धमात्रं संबध्यते, ततश्च तस्यैव यस्य कस्यचित् स्कन्धस्य यो देशो नख-दन्त-केशादिलक्षण: अपचितो जीव
२१. सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । अथवाऽन्यथाऽपि परिपूर्णत्वमत्रोपपद्यते। तच्चैवं-अगुल्याः स्वावयवापेक्षयाऽवयवित्वं हस्तापेक्षया त्ववयवत्वमेव, हस्तस्याप्यनुल्यपेक्षयाऽवयवित्वं, शरीरापेक्षया त्ववयवत्वमेव, किन्तु शरीरस्य त्ववयवित्वमेव, न कस्याप्यवयवत्वमपि । ततश्चावयवभिन्नत्वे सत्यवयवित्वमन्त्यावयवित्वम् । योऽन्त्योऽवयवी स अन्यावयवापेक्षाशून्यत्वेन परिपूर्णत्वात् कृत्स्नस्कन्धः। हयादिस्कन्धाश्च ईदृशा एव अतः कृत्स्नस्कन्धाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org