________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं खंधे अणंतपएसिए खंधे । से तं अचित्तदव्वखंधे ।
(सू० ६४) से किं तं मीसदव्वखंधे ? मीसदव्वखंधे अणेगविहे पण्णत्ते । तंजहासेणाए अग्गिमखंधे, सेणाए मज्झिमखंधे, सेणाए पच्छिमखंधे । सेतं मीसदव्वखंधे ।
(सू० ६५) अहवा जाणगसरीर-भवियसरीरवतिरित्ते दव्वखंधे तिविहे पन्नत्ते । तंजहा - कसिणखंधे १, अकसिणखंधे २,अणेगदवियखंधे ३ ।
(सू० ६६) से किं तं कसिणखंधे ? कसिणखंधे से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे । सेतं कसिणखंधे ।
अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्- अचित्तदव्वखंधे इत्यादि, अविद्यमानचित्तोऽचित्तः, स चासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविध: प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकस्कन्ध: इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेश: प्रदेश:, परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः, स चासौ स्कन्धश्च द्विप्रदेशिकस्कन्धः, एवमन्यत्रापि यथायोगं समासः। सेत्तमित्यादि निगमनम्।
अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह- से किं तमित्यादि । अत्रोत्तरम्- मीसदव्वखंधे सेणाए इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः, स चासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः, कोऽसावित्याहसेनाया: हस्त्यश्व-रथ-पदाति-सन्नाह-खड्ग-कुन्तादिसमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकम्, पश्चिमस्कन्ध: पश्चिमानीकम्, एतेषु हि हस्त्यादय: सचित्ता: खड्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति । सेत्तमित्यादि निगमनम् । तदेवमेकेन प्रकारेण तद्व्यतिरिक्तो द्रव्यस्कन्ध: प्ररूपितः ।
अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह- अहवा जाणगेत्यादि । अथवा अन्येन प्रकारेण ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविध: प्रज्ञप्त:, तद्यथा-कृत्स्नस्कन्धः अकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः । ___ तत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि, अत्रोत्तरम्- कसिणक्खंधेत्यादि, यस्मादन्यो वृहत्तर: स्कन्धो नास्ति स कृत्स्न: परिपूर्ण: स्कन्ध: कृत्स्नस्कन्धः, कोऽयमित्याह- से चेवेत्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिस्कन्ध: कृत्स्नस्कन्धः । आह- यद्येवं प्रकारान्तरत्वमसिद्धम्, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवम्, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्ध्या निष्कृष्य जीवा एवोक्ता:, इह तु जीव-तदधिष्ठितशरीरावयवलक्षण: समुदाय: कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । यद्येवं तर्हि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवम्, यतोऽसंख्येयप्रदेशात्मको जीव: तदधिष्ठिताश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org