________________
श्रीअनुयोगद्वारसूत्रम् [सू०५८-६३]
(सू० ५८) से किं तं णोआगमतो दव्वखंधे ? णोआगमतो दव्वखंधे तिविहे पण्णत्ते। तंजहा- जाणगसरीरदव्वखंधे १, भवियसरीरदव्वखंधे २, जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ३।
(सू० ५९) से किं तं जाणगसरीरदव्वखंधे ? जाणगसरीरदव्वखंधे खंधे इ पयत्थाहिगारजाणगस्स जाव खंधे इ पयं आघवियं पण्णवियं परूवियं जाव सेतं जाणगसरीरदव्वखंधे।
(सू० ६०) से किं तं भवियसरीरदव्वखंधे ? भवियसरीरदव्वखंधे जे जीवे जोणिजम्मणनिक्खंते जाव खंधे इ पयं सेकाले सिक्खिस्सइ । जहा को दिटुंतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वखंधे ।
(सू० ६१) से किं तं जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ? जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे तिविहे पण्णत्ते । तंजहा सचित्ते १, अचित्ते २, मीसए ३ ।
(सू० ६२) से किं तं सचित्तदव्वखंधे ? सचित्तदव्वखंधे अणेगविहे पण्णत्ते । तंजहाहयखंधे गयखंधे किन्नरखंधे किंपुरिसखंधे महोरगखंधे उसभखंधे। सेतं सचित्तदव्वखंधे।
(सू० ६३) से किं तं अचित्तदव्वखंधे ? अचित्तदव्वखंधे अणेगविहे पण्णत्ते । तंजहादुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए खंधे असंखेज्जपएसिए पण्णत्ते इत्यादि, चित्तं मनो विज्ञानमिति पर्याया:, सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, अनेकविधो व्यक्तिभेदतोऽनेकप्रकार: प्रज्ञप्त: । तद्यथाहयस्कन्ध इत्यादि, हय: तुरगः, स एव विशिष्टैकपरिणामपरिणतत्वात् स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिसमास:, नवरं किन्नर-किम्पुरुष-महोरगा व्यन्तरविशेषाः, उसभत्ति वृषभः, क्वचिद् गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं पसु-पसय-विहग-वानरखंधे त्ति क्वचिद् दृश्यते, तत्र पशुः छगलकः, पसयस्तु आटविको द्विखुर: चतुष्पदविशेष:, विहग: पक्षी, वानरः प्रतीत:, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्य: । इह च सचित्तस्कन्धाधिकाराज्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता:, न तु तदधिष्ठितशरीराणीति सम्प्रदाय: । न च जीवानां स्कन्धत्वं नोपपद्यते, प्रत्येकमसङ्खयेयप्रदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति । हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धम्, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यम्, किन्तु पृथविभिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्यद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्तेतरादिव्यवहारोच्छेदप्रसङ्गात् । सेतमित्यादि निगमनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org