________________
३१६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जहण्णयअसंखेज्जासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं परित्ताणंतयं होति, अहवा उक्कोसए असंखेज्जासंखेजए रूवं पक्खित्तं जहण्णयं परित्ताणतयं होइ। तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्ताणतयं ण पावइ ।
(सू० ५१६) उक्कोसयं परित्ताणंतयं केत्तियं होइ ? जहण्णयं परित्ताणंतयं जहण्णयपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहवा जहण्णयं जुत्ताणतयं रूवूणं उक्कोसयं परित्ताणतयं होइ ।
(सू० ५१७) जहण्णयं जुत्ताणतयं केत्तियं होति ? जहण्णयं परित्ताणतयं जहप्रणयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणंतयं होइ, अहवा उक्कोसए परित्ताणतए रूवं पक्खित्तं जहन्नयं जुत्ताणतयं होइ, अभवसिद्धिया वि तेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्ताणतयं ण पावति। नवरं परिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेण परमित्यादि गतार्थमेव। उक्कोसयं परित्ताणतयमित्यादि, जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति । अहवा जहण्णयं जुत्ताणतयमित्यादि स्पष्टम् । जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव । अहवा उक्कोसए परित्ताणंतए इत्यादि सुबोधम् । जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवा: केवलिना तावन्त एव दृष्टाः, तेण परमित्यादि कण्ठ्यम्। उक्कोसयं जुत्ताणतयं केत्तियमित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोन: सन्नुत्कृष्ट युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह- अहवा जहण्णयं अणंताणतयमित्यादि गतार्थम् । जहण्णयं अणंताणतयं केत्तियमित्यादि भावितार्थमेव । अहवा उक्कोसए जुत्ताणंतए इत्यादि प्रतीतमेव । तेण परं अजहण्णुक्कोसयाई इत्यादि, जघन्यादनन्तानन्तकात् परतः सर्वाण्यपि अजधन्योत्कृष्टान्येवानन्तानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्राय: ।
अन्ये त्वाचार्याः प्रतिपादयन्ति- जघन्यमनन्तानन्तकं वारात्रयं पूर्ववद् वर्ग्यते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते । तद्यथा --
सिद्धा १ निओयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेतेऽणंतपक्खेवा ॥१॥ ( )
अयमर्थ:- सर्वे सिद्धा: १, सर्वे सूक्ष्मबादरनिगोदजीवा: २, प्रत्येकानन्ता: सर्वे वनस्पतिजन्तवः ३, सर्वोऽप्यतीतानागतवर्तमानकालसमयराशि: ४, सर्वपुद्गलद्रव्यसमूह: ५, सर्वोऽलोकाकाशप्रदेशराशि:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org