________________
श्री अनुयोगद्वारसूत्रम् [सू०५१४,५१५]
३१५
परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं ण पावति ।
(सू० ५१४) उक्कोस असंखेज्जासंखेज्जयं केत्तियं होति ? जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहणणयं परित्ताणंतयं रूवूणं उक्कोसयं असंखेज्जासंखेजयं होति ।
( सू० ५१५) जहण्णयं परित्ताणंतयं केत्तियं होति ? जहण्णयं असंखेज्जासंखेज्जयं
ठिबंधझवसाणा ७ अणुभागा ८ जोगछेयपलिभागा ९ ।
दोण्ह य समाण समया १० असंखपक्खेवया दस उ || २ || (
)
इदमुक्तं भवति- लोकाकाशस्य यावन्तः प्रदेशाः १ तथा धर्मास्तिकायस्य २ अधर्मास्तिकायस्य ३ एकस्य च जीवस्य ४ यावन्तः प्रदेशाः । दव्वट्ठिया निओय त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः ५, पत्तेया चेव त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिण: सर्वेऽपि जीवा इत्यर्थः ६, ते चासङ्ख्या भवन्ति । ठिइबंधज्झवसाण त्ति स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहि - ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटिप्रमाण, मध्यमपदे त्वेक-द्वि-त्रि- चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसयेयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्था प्रत्येकं भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानान लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति ७ । अणुभाग त्ति अनुभागाः, ज्ञानावरणादिकर्मणां जघन्य-मध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति अतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् ८ । जोगच्छेयपलिभाग त्ति योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिताः जघन्यादिभेदभिन्ना असमयेया मन्तव्याः ९ । हयमाण समय त्ति द्वयोश्च समयो: उत्सर्पिण्यवसर्पिणीकालस्वरूपयो: समयाः असङ्ख्येयस्वरूपा: १० । एवमे प्रत्येकमसङ्ख्येयस्वरूपाः दश प्रक्षेपाः पूर्वोक्ते वारात्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशि: पिण्डित: संपद्यते स पुनरपि पूर्ववद्वारात्रयं वर्ण्यते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्घयेयासङ्ख्येयकं भवति । उक्तं नवविधमप्यसङ्घयेयकम् ।
साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह - जहन्नयं परित्ताणंतयमित्यादि भावितार्थमेव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org