________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० ५१३) जहण्णयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णभासो पडिपुण्णो जहण्णयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होति, तेण युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स ए रूपेणोनः उत्कृष्टं युक्तासङ्ख्येयकं भवति । यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्ये - यासङ्ख्येयकं जायते, अत एवाह- अहवा जहण्णयं असंखेज्जासंखेज्जयं रूवूणमित्यादि गतार्थम् ।
३१४
उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्ख्येयासङ्ख्येयकं त्रिविधं बिभणिषुराह - जहण्णयं असंखेज्जासंखेज्जयं कित्तियमित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णो त्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः । अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसङ्ख्येयासङ्ख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति यावदुत्कृष्टमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । अत्र विनेयः प्रश्नयति- उक्कोसयं असंखेज्जासंखेज्जयं केत्तियमित्यादि । अत्रोत्तरम् - जहण्णयं असंखेज्जासंखेज्जयमित्यादि, जघन्यमसङ्ख्येयासंख्येयकं यावद् भवतीति शेषः, तावत्प्रमाण जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येकरूपसङ्ख्यानामित्यर्थः, राशीना - मन्योन्यमभ्यास: परस्परं गुणनास्वरूपः एकेन रूपेणोन: उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति । अयमत्र भावार्थः- प्रत्येकं जघन्यासङ्ख्येयासङ्ख्येयकरूपा जघन्यासङ्ख्येयासङ्ख्यक एव रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीनः उत्कृष्टमसङ्ख्येयासङ्ख्येयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति - अहवा जहणणयं परित्ताणंतयमित्यादि गतार्थमेव इत्येकीयाचार्यमतं तावद्दर्शितम् ।
अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासमयेयकमन्यथा प्ररूपयन्ति, तथाहि - जघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारात्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्घयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते,
तद्यथा
लोगागासपएसा १ धम्मा - ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्टिया निओया ५ पत्तेया चेव बोद्धव्वा ६ || १ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org