________________
श्रीअनुयोगद्वारसूत्रम् [सू०५१८-५२०]
३१७ (सू० ५१८) उक्कोसयं जुत्ताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ, अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ।
(सू० ५१९) जहण्णयं अणंताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहणणयं अणंताणतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई। सेतं गणणासंखा ।।
(सू० ५२०) से किं तं भावसंखा ? भावसंखा- जे इमे जीवा संखगइनाम-गोत्ताई कम्माई वेदेति । सेतं भावसंखा। सेतं संखप्पमाणे। सेतं भावप्पमाणे। सेतं पमाणे। पमाणे त्ति पयं सम्मत्तं ॥ ६, एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारात्रयं पूर्ववद्वयेते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञान-केवलदर्शनपर्याया: प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात्, अत: परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः ।
सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्ट न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति । सूत्रे च यत्र क्वचित् अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या ।
अथ भावसङ्ख्यानिरूपणार्थमाह- से किं तं भावसंखा इत्यादि, इह संख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खा: परिगृह्यन्ते, अत एव नाम-स्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणं गुणप्रमाणात् पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वात् गुणप्रमाण एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह- जे इमे इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवा: आयु:प्राणादिमन्त: संखगतिनामगोयाई ति शङ्खगतिनामशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एते भावशङ्खा: प्रोच्यन्ते । तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति- सेत्तं संखप्पमाणे त्ति । तत्समाप्तौ चावसितं भावप्रमाणमित्याह- सेत्तं भावप्पमाणे त्ति । एतदवसाने च नि:शेषितं प्रमाणद्वारमित्युपसंहरति- सेत्तं पमाणे त्ति । प्रमाणद्वारं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org