________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० १९४) एवं फुसणा कालाणुपुव्वीए वि तहा चेव भाणितव्वा ।
आएसंतरेण वा सव्वपुच्छासु होज्जत्ति, ७३ ३ अस्य भावना- इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परं भिन्नाः, आकारादिभेदात्, द्वि- त्रि- चतुः प्रदेशिकादिस्कन्धवत्, ततश्च ता एकैकसमयवृत्तित्वात् पृथगनानुपूर्वीद्रव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षा किलैकमनानुपूर्वीद्रव्यं मतान्तरेण सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीका - चूर्ण्योस्त्वेवं व्याख्यातमुपलभ्यत इति ।
नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थितिकद्रव्याणां सर्वत्र भावादिति । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिति ? उच्यते - यत् कालतो द्विसमयस्थितिकं तत् क्षेत्रतोऽपि द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते,
१३४
७३. अस्य भावनेति । अचित्तमहास्कन्धस्य द्विविधाऽवगाहना - स्वस्थानतः, समुद्धाततश्च । तत्र प्रथमाऽङ्गुलस्यासङ्ख्येयभागमात्रत्वाल्लोकस्यासङ्ख्येयभागमात्रैव उत्कृष्टतो ज्ञेया । समुद्धाततस्तु या प्राप्यते सा तस्य स्कन्धस्य मूलस्थानमनुसृत्य लोकस्यासङ्ख्येयभागादिः पञ्चप्रकारापि प्राप्यते। समुद्धातं गतस्याचित्तमहास्कन्धस्य दण्डाद्यवस्थास्ववस्थाभेदेन भेदो यदा विवक्ष्यते, तदा दण्डादितत्तदवस्थापन्नस्य महास्कन्धस्यैकैकसमयस्थितिकत्वात् पृथक् पृथगनानुपूर्वीद्रव्यत्वमेव । तदपेक्ष्य चानानुपूर्वीद्रव्यं सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते । अस्यां विवक्षायां समुद्धातापन्नस्याचित्तमहास्कन्धस्य यतो नानुपूर्वीद्रव्यत्वमत आनुपूर्वीद्रव्यस्य लोकाऽसङ्ख्येयभागमात्रैकैवावगाहना प्राप्यत इति ध्येयम् । अथ दण्डाद्यवस्थास्ववस्थाभेदेऽपि द्रव्यभेदाभावेनाभेद एव यदा विवक्ष्यते तदा समुद्धातं गतस्याप्यचित्तमहास्कन्धस्याष्टादिसमयस्थितिकत्वादानुपूर्वीद्रव्यत्वमेव । अतोऽस्यां विवक्षयामानुपूर्वीद्रव्यं सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते । अनानुपूर्वीद्रव्यं त्वेकसमयस्थितिकत्वात् समुद्धातासम्भवात् स्वस्थानावगाहनाभूते लोकासङ्ख्येयभागमात्रे क्षेत्रे लभ्यत इति ज्ञायते । अनयोश्च विवक्षयोर्नैकस्यामपि समुद्धातमापन्नस्याचित्तमहास्कन्धस्य यतोऽवक्तव्यकद्रव्यत्वं, अतोऽवक्तव्यकद्रव्यं स्वस्थानावगाहनाभूते लोकाऽसङ्ख्येयभागमात्रे क्षेत्र एव प्राप्यते ।
नन्वेकोऽचित्तमहास्कन्धः प्रथमसमये दण्डं द्वितीयसमये च कपाटं कृत्वा भिन्नः । ततश्च तस्यावक्तव्यकत्वस्य निराबाधत्वादवक्तव्यकस्यापि लोकसङ्ख्येयभागादिकाप्यवगाहना प्राप्यत इति चेत् ? एवंप्रकारोऽचित्तमहास्कन्धभेदः सम्भवति न वेति न वयं जानीमः, तत्सम्भवेऽपि न तदवगाहनासम्भल, दण्डकपाटयोर्द्वयोरप्यवस्थयोस्तस्य लोकासङ्ख्येयभागमात्रे क्षेत्रेऽवगाढत्वाद् लोकसङ्ख्येयभागादिकानां पृच्छानामसम्भवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org