________________
श्रीअनुयोगद्वारसूत्रम् [सू०१९१-१९३]
१३३
( सू० १९९) गम - ववहाराणं आणुपुव्विदव्वाइं किं अत्थि णत्थि ? नियमा तिणि वि अत्थि ।
( सू० १९२) गम - ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं, असंखेज्जाई, अणंताई ? तिणि वि नो संखेज्जाइं, असंखेज्जाई, नो अणंताई ।
(सू० १९३) णेगम - ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागे होज्जा ? ० पुच्छा, एगदव्वं पडुच्च लोगस्स संखेज्जतिभागे वा होज्जा जाव असंखेज्जेसु वा भागेसु होज्जा, देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । एवं अणाणुपुव्वि-अवत्तव्वयदव्वाणि भाणियव्वाणि जहा गम-ववहाराणं खेत्ताणुपुव्वीए । नलोकवर्तित्वं भावनीयम् । अन्ये तु पएसूणे वा लोगे होज्ज त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति । सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेत्, उच्यतेसर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, स च तद्व्यापितया एकमेव समयमवतिष्ठते, त ऊर्द्धमुपसंहारस्योक्तत्वात्, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात् त्र्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्रतिपत्तव्यम् ।
अत्राह नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासमयगणने तस्याप्यष्टसमयस्थितिकत्वात्, एवं च सति तस्याप्यानुपूर्वीत्वात् सम्पूर्णलोकव्यापित्वं युज्यतेऽत्र वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्येह विवक्षितत्वात्, भिन्नाश्च परस्परं दण्ड- कपाटाद्यवस्थाः, तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्ड- कपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धद्रव्यम्, तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं प्रसङ्गेन । अथवा यथा क्षेत्रानुपूर्व्यं तथाऽत्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभ:प्रदेशेऽप्राधान्याद्देशोनलोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्यानानुपूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः । एवमन्यदपि आगमाविरोधतो वक्तव्यमिति ।
-
नाणादव्वाइं पडुच्च नियमा सव्वलोए होज त्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् ।
अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिदम् ? उच्यते यत् कालत एकसमयस्थितिकं तत् क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते, तच्च लोकासङ्ख्येयभाग एव भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org