________________
१३२
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० १८९) से किं तं समोयारे ? समोयारे णेगम-ववहाराणं आणुपुव्विदव्वाइं समोरंति ? जाव तिण्णि वि सट्टाणे सट्टाणे समोयरंति त्ति भाणियव्वं । सेतं समोयारे । (सू० १९०) से किं तं अणुगमे ? अणुगमे णवविहे पण्णत्ते । तंजहासंतपयपरूवणया १ जाव अप्पाबहुं चेव ९ ॥ १५॥
यावदसङ्ख्येयसमयलक्षणायाः
स्थितेरेकत्वादनन्तैरप्यसङ्ख्येयसमयस्थितिकैर्द्रव्यैरेकमेवेहाऽऽनुपूर्वीद्रव्यमिति, एवमसङ्ख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति । एवमनानुपूर्व्यवक्तव्यकद्रव्याण्यपि प्रत्येकमसङ्ख्येयानि वाच्यानि । अत्राह - नन्वेकसमयस्थितिकद्रव्यस्यानानुपूर्वीत्वं द्विसमयस्थितिक त्ववक्तव्यकत्वमुक्तम्, तत्र यद्यप्येकद्विसमयस्थितीनि परमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानि लभ्यन्ते तथाऽप्यनन्तरोक्तत्वदुक्तयुक्त्यैव समयलक्षणाया द्विसमयलक्षणायाश्च स्थितेरेकैकरूपत्वाद् द्रव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वीद्रव्यमेकमेव चावक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकमसङ्ख्येयत्वम्, अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनां च द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके चासङ्ख्येया अवगाहभेदाः सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसङ्ख्येयत्वं न विहन्यते इति, अनया दिशाऽतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति ।
क्षेत्रद्वारे एगदव्वं पडुच्च लोगस्स संखेज्जइभागे होज्जा, जाव देसूणे वा लोगे होज त्ति, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवतः सङ्ख्येयादिभागवर्तित्वं भावनीयम्, यदा तु त्र्यादिसमयस्थितिकः सूक्ष्मपरिणामः स्कन्धो देशोनलोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोक्षेत्रानुपूर्वीमपेक्ष्य यद् तद् द्रव्यानुपूर्वीमपेक्ष्य
__कालानुपूर्वीमपेक्ष्य
प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः अवक्तव्यकं वाऽनुपूर्वी वा
आनुपूर्व्येव
अनानुपूर्वी अवक्तव्यक्तं
आनुपूर्वी
कालानुपूर्वीमपेक्ष्य यद्
अनानुपूर्वी
अवक्तव्यक्तं
आनुपूर्वी
Jain Education International
तद् द्रव्यानुपूर्वीमपेक्ष्य
| प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः | प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः
स्थित्यनुसारेण त्रयाणामपि सम्भवः । स्थित्यनुसारेण त्रयाणामपि सम्भवः । स्थित्यनुसारेण त्रयाणामपि सम्भवः ।।
क्षेत्रानुपूर्वीमपेक्ष्य
अवगाहनानुसारेण त्रयाणामपि सम्भवः अवगाहनानुसारेण त्रयाणामपि सम्भवः अवगाहनानुसारेण त्रयाणामपि सम्भवः
For Private & Personal Use Only
www.jainelibrary.org