________________
१२०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १५९) से किं तं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी ? जहेव दव्वाणुपुव्वी तहेव खेत्ताणुपुव्वी णेयव्वा । सेतं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी। सेतं अणोवणिहिया खेत्ताणुपुव्वी।
(हे० १५९) उक्ता नैगम-व्यवहारमतेनानौपनिधिकी क्षेत्रानुपूर्वी, अथ तामेव संग्रहमतेन बिभणिषुराह - से किं तमित्यादि । इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयम्, नवरं क्षेत्रप्राधान्यादत्र तिपएसोगाढा आणुपुव्वी जाव असंखेज्जपएसोगाढा आणुपुव्वी, एगपएसोगाढा अणाणुपुव्वी, दुपएसोगाढा अवत्तव्वए इत्यादि वक्तव्यम्, शेषं तथैवेति ।
(२) स्वगत-स्वाव्यवहितपश्चाद्वर्तिप्रतरगतनभःप्रदेशेष्ववगाढान्यवक्तव्यकद्रव्याणि 'प' प्रमाणानि प्राप्यन्ते' इति पूर्वं दृष्टम्, ईदृशानां च द्रव्याणामत्र पञ्चप्रतरमये क्षेत्रे यतः (५ - १ = ४) = (प -- १) इतिप्रमाणाः समूहाः प्राप्यन्तेऽतः सर्वाण्यप्येतानि प२ x (प – १) = (प* – प) इति प्रमाणानि प्राप्यन्ते।
एवं च 'प'प्रमाणश्रेणिके समचतुरस्र क्षेत्रे सर्वाणि सम्मील्य २प - २प + प' - परे = (३प - ३५२) इतिप्रमाणान्यवक्तव्यकद्रव्याणि प्राप्यन्ते । लोकाकाशश्च पञ्चमकर्मग्रन्थोक्तरीत्या स्थूलव्यवहारतः सप्तरज्जुकायाम-दैर्घ्य-विष्कम्भो घनीकृतलोकमयः। अतोऽत्र श्रेणिः सप्तरज्जुकश्रेणिप्रमाणा ग्राह्या । सा च यदि 'अ' इति संज्ञिता भवेत्तदा सम्पूर्णलोकेऽवक्तव्यकानि द्रव्याणि (३श्र - ३श्र') इति प्रमाणानि प्राप्यन्ते। किञ्च श्रेणिगुणिता श्रेणिः अरे प्रतरं भवति। प्रतरगुणिता च सा श्र घनीकृतलोकतुल्या भवति। ततश्चावक्तव्यकानां द्रव्यप्रमाणं त्रिगुणितः प्रतरत्रयोनो यो लोकाकाशप्रदेशराशिस्तत्तुल्यं प्राप्यत इति निश्चीयते। अनानुपूर्वीणां तु तद् लोकाकाशप्रदेशराशितुल्यमेवेति स्पष्टम् । ततश्च कथं तेषामवक्तव्यकापेक्षया विशेषाधिकत्वम् ? न हि लोकपर्यन्तवर्तिनिष्कुटगतानां कण्टकाकृतीनां विश्रेण्या निर्गतानामेकाकिनामवक्तव्यकत्वायोग्यानां प्रदेशानां राशिर्द्विगुणितलोकाकाशप्रदेशराशितुल्यो भवितुं स्वप्नेऽप्यर्हतीति चेत्? सत्यम्, अत एव वृत्तिकारैः ‘इत्यलं विस्तरेणे'त्युक्त्वाऽधिकं न चर्चितं स्वास्वरसश्च सूचित इति प्रतिभाति । ननु तर्हि सूत्रसङ्गतिः कथं कर्तव्येति चेद् ? इत्थम्
यद्यप्यत्र क्षेत्रानुपूर्व्यधिकारे विवक्षिते एकस्मिन्नभःप्रदेशेऽवगाढानां परमाण्वादीनामनन्ताणुकस्कन्धपर्यन्तानां सर्वेषां द्रव्याणामेकमेवानानुपूर्वीद्रव्यं गण्यते, एवं विवक्षिते नभःप्रदेशद्वयेऽवगाढानां द्व्यणुकादीनामनन्ताणुकस्कन्धपर्यन्तानामनन्तानामपि पुद्गलानामेकमेवावक्तव्यकद्रव्यं गण्यते, तथैवमेवानुपूर्वीविचारेऽपि गण्यते, तथाप्यत्राल्पबहुत्वद्वारे सूत्रोपपत्त्यर्थं तां विवक्षां परित्यज्य समानाकाशप्रदेशावगाढानामपि पृथक्पृथक्त्वमेव विवक्षितव्यम् । तथा च, अनानुपूर्वीद्रव्याण्यनन्तान्येव प्राप्यन्ते, एकस्मिन्नभःप्रदेशेऽप्यनन्तानां पुद्गलानामवगाढत्वात् । एवमेवावक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org