________________
श्रीअनुयोगद्वारसूत्रम् [सू०१५९]
१२१ व्यकान्यानुपूर्वीद्रव्याणि च प्रत्येकमनन्तान्यनन्तानि प्राप्यन्ते । तेषु चावक्तव्यकद्रव्याण्येव सर्वाल्पानि, ट्यणुकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामवक्तव्यत्वार्हत्वेऽपि परमाणूनां तदनहत्वात्, तेभ्यश्चानानुपूर्वीद्रव्याणि विशेषाधिकानि, परमाणूनामपि तदर्हत्वात्, तेभ्योऽप्यानुपूर्वीद्रव्याण्यसङ्ख्येयगुणानि, क्षेत्रापेक्षयाऽसङ्ख्येयगुणविकल्पवत्त्वात्। द्रव्यलोकप्रकाशे एकादशे सर्गे संस्थानपरिणामद्वारे- एषु चाल्पाल्पप्रदेशावगाहीनि स्वभावतः। भूयांस्यल्पानि भूयिष्ठखांशस्थायीनि तानि च ।।११-१०५ ।। इत्येवं यदुक्तं तेनाप्याकाशप्रदेशद्वयावगाहिद्रव्यापेक्षयैकाकाशप्रदेशावगाहिद्रव्याणां विशेषाधिकत्वं सूच्यत एवेति ।
नन्वेवं द्रव्यापेक्षयैवाल्पबहुत्वसूत्रोपपादने द्रव्यस्यैव प्राधान्यं स्यादिति क्षेत्रानुपूर्वीत्वानुपपत्त्यापत्तिरिति चेत् ? न, विवक्षितस्य द्रव्यस्यानुपूर्वीत्वादिकथने कियदाकाशप्रदेशावगाढं तदित्यस्यैव विचारितत्वात् । अयं भावः- विवक्षितं द्रव्यं परमाणुर्वा स्याद् द्व्यणुकं वा स्यात् त्र्यणुकादि वा स्याद्, न तदपेक्षया तस्यानानुपूर्वीत्वादिकमत्र गृहीतम्, अपि तु तदवगाहनापेक्षयैव तदत्राल्पबहुत्वविचारे गृहीतम् । अत एव परमाणुव्यणुकादि किमपि द्रव्यं यद्येकाकाशप्रदेशावगाढं, तदाऽत्र तदनानुपूर्वीत्वेनैव गृहीतम्, यद्याकाशप्रदेशद्वयावगाढं, तदा तदवक्तव्यत्वेनैव गृहीतम्, यदि तदधिकाकाशप्रदेशावगाढं, तदा तदानुपूर्वीत्वेनैव गृहीतम् । ततश्च क्षेत्रानुपूर्वीत्वानुपपत्तिगन्धोऽपि कुतः ?
। नन्वत्र क्षेत्रानुपूर्वीविचारे द्रव्यप्रमाणद्वारे समानाकाशप्रदेशावगाढानां सर्वेषां द्रव्याणामेकत्वमेव विवक्षितं, क्षेत्रभेदमात्रेणैव पृथक्त्वं गृहीतम्, अन्यथाऽसङ्ख्येयत्वकथनानुपपत्तिः स्याद् । एवमेव क्षेत्रादिद्वारेष्वपि सैव विवक्षा। ततश्चात्राल्पबहुत्वद्वारे सा विवक्षा या परित्यक्ता, क्षेत्रभेदाभावेऽपि द्रव्यभेदो यदि वर्तते तदा पृथक्त्वमेव मन्तव्यमिति विवक्षा च सूत्रकारैर्याऽऽदृता तत्र किं समाधानमिति चेत् ? विचित्रा सूत्रगतिरित्येवात्र समाधानमस्माकं प्रतिभाति । यद्वाऽत्रत्यसूत्रस्य द्रव्यानुपूर्वीगताल्पबहुत्वद्वारविषयकसूत्रेण तुल्यत्वसम्पादनद्वाराऽतिदेशकरणमेवात्र प्रयोजनमिति समाधेयम्।
नन्वत्र क्षेत्रभेदेनैव द्रव्यभेदो मन्तव्य इति द्रव्यप्रमाणादिद्वारेषु या विवक्षा तयैव यद्यल्पबहुत्वं चिन्तनीयं भवेत्तदा तत्कीदृशं स्यादिति चेत् ? ईदृशं-द्रव्यार्थतया -अनानुपूर्वीद्रव्याणि स्तोकानि लोकाकाशप्रदेशराशितुल्यत्वात्, तेभ्योऽवक्तव्यकद्रव्याणि देशोनत्रिगुणानि, प्रतरत्रिकन्यूनत्रिगुणितलोकाकाशप्रदेशराशितुल्यत्वात्, तेभ्योऽपि चानुपूर्वीद्रव्याण्यसङ्ख्येयगुणानि, असङ्ख्यलोकाकाशप्रदेशराशितुल्यत्वात्।
प्रदेशार्थतया-अनानुपूर्वीद्रव्याण्यप्रदेशार्थतया स्तोकानि, लोकाकाशप्रदेशराशितुल्यत्वात्, तेभ्योऽवक्तव्यकद्रव्यप्रदेशा देशोनषड्गुणाः, प्रतरत्रिकन्यूनत्रिगुणितलोकाकाशप्रदेशराशितो द्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org