________________
३१
श्रीअनुयोगद्वारसूत्रम् [सू०१५]
(४) उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ ।
(५) तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वावस्सयं ।
उज्जुसुयस्सेत्यादि, ऋजु अतीता-ऽनागत-परकीयपरिहारेण १८प्राञ्जलं वस्तु सूत्रयति अभ्युपगच्छतीति ऋजुसूत्र: । अयं हि वर्तमानकालभाव्येव वस्त्वभ्युपगच्छति, नातीतं विनष्टत्वात्, नाप्यनागतम्, अनुत्पन्नत्वात्, वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात्, स्वधनवत्, परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति, पुहत्तं नेच्छइ त्ति अतीतानागतभेदत: परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ, किं तर्हि ? वर्तमानकालीनं स्वगतमेव चाभ्युपैति, तच्चैकमेवेति भावः ।
तिण्हं सद्दनयाणमित्यादि, शब्दप्रधाना नया: शब्दनया: शब्द-समभिरूद्वैवम्भूता:, ते हि १९शब्दमेव प्रधानमिच्छन्ति, अर्थं तु गौणम्, शब्दवशेनैवार्थप्रतीतेः । तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीदमित्यर्थः । कम्ह त्ति कस्मादेवमुच्यते इत्याह - जईत्यादि, यदि ज्ञायकस्तर्खनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वात् । इदमत्र हृदयम्आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग् निर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्त: ? अनुपयुक्तश्चेत् कथं जानाति, ज्ञानस्योपयोगरूपत्वात् ? यदप्यागमकारणत्वादात्म-देहादिकमागमत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात् । तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति । निगमयन्नाह- सेत्तमित्यादि, तदेतदागमतो द्रव्यावश्यकम् ।
१८. प्राञ्जलं वस्तु सूत्रयतीति...। अत्र प्राञ्जलमिति क्रियाविशेषणं, न तु वस्तुविशेषणं, तथा च यः ऋजु = प्राञ्जलं सूत्रणं करोति स ऋजुसूत्र इत्यर्थो लभ्यते। ननु सूत्रणे प्राञ्जलत्वं किम् ? शृणु-कूटस्य रूप्यकस्य रूप्यत्वेन व्यवहारे न ऋजुता, अपि तु वक्रतेति यत्सर्वैरङ्गीक्रियते तत्र किं कारणमिति प्रश्न इदमेवोत्तरं दातव्यं भवति यद् कूटं रूप्यकं कार्यसाधकं न भवति, यत्तु परमार्थतो रूप्यकं तत्तु कार्यसाधकं भवत्येव । तथा चेयं व्याप्तिः पर्यवस्यति-कार्यासाधकस्य कार्यसाधकत्वेन व्यवहारे वक्रता, न तु ऋजुता। अतीतस्य, अनागतस्य परकीयस्य वा वस्तुनः स्वकार्यासाधकत्वं तु स्पष्टमेव । तथापि तस्य तत्तद्वस्तुत्वेन व्यवहारे वक्रतैतद्व्याप्तिसिद्धा । ततश्च तस्या वक्रतायाः परिहारेण स्वकार्यसाधकस्य स्वकीयस्य वर्तमानस्य वस्तुन एव तत्तद्वस्तुत्वेन यो व्यवहारस्तस्मिन् ऋजुता सुगमैवेति।
१९. शब्दमेव प्रधानमित्यादि...। तथा चैकस्मिन्नप्यर्थे वचन-लिङ्ग-वर्णावल्यादिभेदादर्थभेदं मन्यन्ते ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org