________________
३०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) एवमेव ववहारस्स वि ।
(३) संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वास्सयं वा दव्वावस्सयाणि वा से एगे दव्वावस्सए।
सामान्यरूपमेव, ततो विशेषवादित्वस्येह प्राधान्येन विवक्षितत्वाद्यावन्त: केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुन: संग्रहवत् सामान्यवादित्वादेकमेवेति भावः।
एवमेव ववहारस्स वि त्ति, व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपः, तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि एवमेव नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति- व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरण-व्रणपिण्डीप्रदानादिके घट-निम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते, न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुसत्त्वेन प्रतिपद्यतेऽसौ, न सामान्यम्, व्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अत्र चातिदेशेनैवेष्टार्थसिद्धेस्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यास: कृत इति भावनीयम् ।
संगहस्सेत्यादि, सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं संगृह्णाति सामान्यरूपतयाऽध्यवस्यतीति संग्रहः, २७तस्य मते एको वा अनेके वा अनुपयुक्तो वाऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा तत् किमित्याह - से एगे त्ति तदेकं द्रव्यावश्यकम् । इदमत्र हृदयम्- संग्रहनय: सामान्यमेवाभ्युपगच्छति, न विशेषान्, अभिदधाति च - सामान्याद्विशेषा व्यतिरिक्ता वा स्यु: अव्यतिरिक्ता वा ? यद्याद्य: पक्षस्तर्हि न सन्त्यमी, नि:सामान्यत्वात्, खरविषाणवत् । अथापर: पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत् । तस्मात् सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामान्याव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति।
१७. तस्य मते एको वेत्यादि... नन्वत्र सङ्ग्रहस्य मतेऽनेकेऽनुपयुक्ता यान्यागमतो द्रव्यावश्यकानि तान्येकं द्रव्यावश्यकमित्यर्थो लभ्यते, स तु कथं सङ्गच्छते, सङ्ग्रहमतेऽनेकत्वस्यैवासङ्गतत्वादिति चेत् ? न, उद्देश्यकोटावनेकत्वं यदुक्तं तद् व्यवहारनयमाश्रित्येत्यदोषः । अथ, सङ्ग्रहनयनिरूपणावसरे व्यवहारनयेन कथनं किमर्थमिति चेत् ? यत्प्रसिद्धं भवति तदेवोद्देश्यकोटौ प्रविशति। प्रतिदिनं शतशो भवतो व्यवहारस्य व्यवहारनयानुसारित्वाद् गुरुशिष्यबुद्धौ व्यवहारनय एव चिररूढो भवतीति लोकस्थितिः । अतो व्यवहारनयानुसार्यनेकत्वस्य प्रसिद्धत्वादुद्देश्यकोटौ तत्प्रवेश इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org