________________
श्रीअनुयोगद्वारसूत्रम् [सू०१५]
(सू० १५) (१) णेगमस्स एगो अणुवउत्तो आगमओ एगं दव्वास्सयं, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता आगमओ तिण्णि दव्वावस्सयाई, एवं जावइया अणुवउत्ता तावइयाई ताई णेगमस्स आगमओ दव्वावस्सयाई। श्रुत्वा प्रतिनिवृत्तायां परिषदि कस्यचिद्विद्याधरस्य गगनोत्पतनहेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन् किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ, पुनरुत्पतति पुनश्च निपतति। एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः- किमित्ययं महाभाग: खेचरो विधुरितपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतती-ति ? भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदित:, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यैवमवादीत्-भो: खेचर ! यदि मां समानसिद्धिकं करोषि तदा त्वद्विद्याऽक्षरमुपलभ्य कथयामि । प्रतिपन्नं च तेन । अभयकुमारस्य चैकस्मादपि पदादनेकपदाभ्यूहनशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितं खेचरस्य । सोऽपि संजातसंपूर्णविद्यो हृष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गत: समीहितप्रदेशमिति एष दृष्टान्तः । उपनयस्त्वयम् - यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतम्, तदुपरमे च व्यर्थैव विद्या, तथेहापि हीनाक्षरतायामर्थभेदः, तद्भेदे क्रियाभेदः, तद्भेदे च मोक्षाभाव:, तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति । एवमधिकाक्षरादिष्वपि दोषा: सदृष्टान्ता अभ्यूह्य वाच्याः ।
इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, नत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥१।। ( आवश्यकनि० ७६१)
इति वचनात् । अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते । ते च मूलभेदानाश्रित्य नैगमादय: सप्त । तदुक्तम् -
नेगम-संगह-ववहार-उज्जुसुए चेव होइ बोधव्वे । सद्दे य समभिरूढे एवंभूते य मूलनया ॥१॥ (आवश्यकनि० ७५४ )
तत्र नैगमस्तावत् कियन्ति द्रव्यावश्यकानीच्छतीत्याह - नेगमस्सेत्यादि, सामान्य-विशेषादिप्रकारेण नैक: अपि तु बहवो गमा वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारस्य लोपान्नैगम:, सामान्य-विशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः । तस्य नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकम्, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वे द्रव्यावश्यके, त्रयो देवदत्त-यज्ञदत्त-सोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि। किं बहुना ? एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवर्तीनि नैगमस्यागमतो द्रव्यावश्यकानि। एतदुक्तं भवति - नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org