________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
कण्ठौष्ठमिति प्राण्यङ्गत्वात् समाहार:, तेन विप्रमुक्तं कण्ठौष्ठविप्रमुक्तम्, बाल-मूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतम्, न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमिति भावः । तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भव स जन्तुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक्षणया प्रच्छनयाऽनवगतार्थादेर्गुरुं प्रति प्रश्नलक्षण परावर्त्तनया पुन: पुन: सूत्रार्थाभ्यासलक्षणया धर्मकथया अहिंसादिधर्म्मप्ररूपणस्वरूपया वर्त्तमानोऽपि, अनुपयुक्तत्वात्' इति साध्याहारम् आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः ।
२८
ननु यथा वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि वर्त्तमानस्तद्भवति ?, नेत्याह- नो अणुप्पेहाए त्ति, अनुप्रेक्षया ग्रन्थार्थानुचिन्तनरूपया तत्र वर्त्तमान न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावात्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भाव: । अत्राह परः- कम्ह त्ति, ननु कस्माद्वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकम् ? कस्माच्चानुप्रेक्षया तत्र वर्त्तमानो न तथा ? इति प्रच्छकाभिप्राय:, एवं पृष्टे सत्याह- अणुवओगो दव्वमिति कट्टु त्ति अनुपयोगो द्रव्यमिति कृत्वा, उपयोजनमुपयोगो जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः पदार्थः, विवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति इति कृत्वा अस्मात् कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवति-उपयोगपूर्व्वका अनुपयोगपूर्वकाश्च वाचना- प्रच्छनादयः संभवत्येव, तह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्व्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः, अनुपयोगस्तु भावशून्यता, तच्छून्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैव संभवति, अतस्तत्र वर्त्तमानो न तथेति भावार्थ: ।
स
अत्राह- नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टसिद्धेः शिक्षितादिश्रुतगुणसमुत्कीर्त्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्त्तनं कुर्व्वन्निदं ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव च भवति, किं पुनः सदोषम् ?, उपयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति । एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपयुक्तस्य तु मतिवैकल्यादित: सदोषा अप्यमी कर्ममलापगमायैवेत्यलं विस्तरेण ।
अत्राह- ननु भवत्वेवम्, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो येनोक्तमहीनाक्षरमिति, अत्रोच्यते- लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धान्ते ? तथाहि - राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थं विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ । ततो भगवदन्तिके धर्मं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org