________________
२७
श्रीअनुयोगद्वारसूत्रम् [सू०१४] पुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं । सेणं तत्थ वायणाए पुच्छणाए परियणाए धम्मकहाए, णो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटु । परिवर्तना-धर्मकथाभिर्वर्तमानोऽप्यावश्यकोपयोगे अवर्तमान: आगमत: आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थ: । अत्राह-नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एतच्चायुक्तम्, यत आगमो ज्ञानम्, ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत्, किन्त्वागमस्य कारणमात्मा तदधिष्ठितो देह: शब्दश्चोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः, एतच्च त्रितयमागमकारणत्वात् कारणे कार्योपचारादागम उच्यते, कारणं च विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः।
तत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तच्छिक्षितमुच्यते, तदेवाविस्मरणत-श्चेतसि स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वत: परेण वा क्वचित् पृष्टस्य यच्छीघ्रमागच्छति तजितम्, विज्ञातश्लोक-पद-वर्णादिसंख्यं मितम्, परि समन्तात् सर्वप्रकारैर्जितं परिजितम्, परावर्त्तनं कुर्खतो यत् क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम अभिधानम्, तेन समं नामसमम्, इदमुक्तं भवति- यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा उदात्तादयः, तैर्वाचनाचार्याभिहितघोषैः समं घोषसमम्, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद्घोषसममिति भाव:, एक-द्वयादिभिरक्षहीन हीनाक्षरम्, न तथा अहीनाक्षरम्, एकादिभिरक्षरैरधिकमत्यक्षरम्, न तथा अनत्यक्षरम्, अव्वाइद्धक्खरं ति विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि विपर्यस्तान्यक्षराणि यत्र तद् व्याविद्धाक्षरम्, न तथाऽव्याविद्धाक्षरम्, अव्वाइद्धमिति क्वचित् पाठः, तत्रापि व्याविद्धाक्षरयोगाद् व्याविद्धम्, न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लाङगलमिव स्खलति यत्तत् स्खलितम्, न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मीलितम्, न तथाऽमीलितम्, एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्यानेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यानेडितम्, अस्थानविरतिकं वा व्यत्यानेडितम्, न तथाऽव्यत्यामेडितम्, सूत्रतो बिन्दु-मात्रादिभिरन्यूनमर्थतस्त्वध्याहाराऽऽकाङ्क्षादिरहितं प्रतिपूर्णम्, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम् । अत्राह- घोषसममित्युक्तमेव तत् क इह विशेष इति, उच्यते, १६घोषसममिति शिक्षाकालमधिकृत्योक्तम्, प्रतिपूर्णघोषं तु परावर्तनादिकालमधिकृत्येति विशेष:, कण्ठश्चौष्ठश्च
१६. घोषसममिति शिक्षाकालमधिकृत्योक्तमित्यादि । तथा च समुद्देशात्पूर्वं तद् घोषसमं भवति, पश्चात्तु प्रतिपूर्णघोषमिति व्यक्त एव विशेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org