________________
२६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १४) से किं तं आगमतो दव्वावस्सयं ? आगमतो दव्वावस्सयं जस्स णं आवस्सए त्ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिइदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूत-भविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः ।
___ इत: प्रकृतमुच्यते-तच्चेह द्रव्यरूपमावश्यकं प्रकृतम्, तत्रावश्यकोपयोगाधिष्ठित: साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागम: आवर्तादिका क्रिया चावश्यकमुच्यते, आवश्यकोपयोगशून्यास्तु ता एव देहा-ऽऽगम-क्रिया द्रव्यावश्यकम्, तच्च द्विविधं प्रज्ञप्तमिति, तद्यथा- आगमत: आगममाश्रित्य नोआगमत: नोआगममाश्रित्य, नोशब्दार्थं यथावसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि स्वस्वविषये तुल्यप्राधान्यख्यापनार्थौ ।
अत्राद्यभेदजिज्ञासुराह- से किं तमित्यादि । अथ किं तदागमतो द्रव्यावश्यकमिति । आहआगमतो दव्वावस्सयं जस्स णमित्यादि, णमिति पूर्ववत्, जस्स त्ति यस्य कस्यचित् आवस्सए त्ति पयं ति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति, से णं तत्थेति स जन्तुस्तत्र आवश्यकशास्त्रे वाचना-प्रच्छना
अथ नापेक्षत इति द्वितीयो विकल्पस्तानन्तकालपश्चाद्भाविपर्यायोपेतस्याऽपि तज्जीवस्य द्रव्येन्द्रत्वेन व्यवहार्यत्वापत्तिरिति चेत् ? द्वितीयमेव विकल्पं गृहाण, तत्र च यदि कार्यकारणभावानुसन्धान केनाप्युपायेन भवेत्तदा त्वदुक्तो व्यवहार इष्ट एव, अत एव कोटाकोटिसागरलक्षणसुदीर्घकालपश्चाद्भाविचरमतीर्थकृज्जीवत्वेनानुसन्धीयमानो मरीचिस्त्रिदंडिकवेशोऽपि भरतचक्रवर्तिना वन्दितः। ननु तेन बुद्धावारोप्य भावजिन एव वन्दित इति चेत्? तथापि मरीचिजीव एव किमर्थं तेन वन्दित इति विचार्यताम्, अन्यथा बुद्धावारोपितस्य भावजिनस्यैव वन्दनाभिप्राये यः कोऽपि जीवस्तेन चरमजिनं बुद्धावारोप्य वन्दितः स्यात् । न चैवंभूतम्। ततश्च भाविजिनजीवत्वेन मरीचिजीवोऽपि वन्दित एवेति मन्तव्यमेव । यत्तु तेन 'अहं भावजिनं वन्दामि' इत्युक्तं, यथा गूर्जरभाषायां २७ भव स्तवने- नवि वंदु त्रिदंडिकवेश, नमुं भक्तिए वीरजिनेश इति। तत्तु न मरीचिजीवलक्षणस्य द्रव्यजिनस्य वन्द्यतानिषेधार्थं, अपि तु त्रिदंडिक-वेशस्य वन्द्यतानिषेधार्थमेवेति। तदुक्तं- त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि प्रथमे सर्गे....। त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत ।।५२ ।।.... पारिवाज्यं न ते वन्द्यं भाव्यर्हन्निति वन्द्यसे ।।५४।। अत्र ‘यतस्त्वं भाव्यर्हन्, अतो वन्द्यसे' इत्यर्थस्य प्राप्यमाणत्वात् मरीचेर्द्रव्यजिनत्वेन, वन्द्यता ज्ञायत एव । अधिकं निक्षेपविंशिकायाम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org