________________
श्रीअनुयोगद्वारसूत्रम् [सू०१३]
(सू० १३) से किं तं दव्वावस्सयं ? दव्वावस्सयं दुविहं पण्णत्तं । तंजहा- आगमतो य १, णोआगमतो य २ । ___ उक्त स्थापनावश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्नं कारयति- से किं तमित्यादि । अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह- दव्वावस्सयं दुविहमित्यादि । तत्र द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं विवक्षितयोरतीत-भविष्यद्भावयो: कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभा वा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्यावश्यकम्, अनुभूतावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्यर्थः। द्रव्यलक्षणं च सामान्यत इदम्
भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१|| ( )
व्याख्या- तद् द्रव्यं तत्त्वज्ञैः कथितम्, यत् कथंभूतमित्याह-यत् कारणं हेतुः, कस्येत्याहभावस्य पर्यायस्य, कथंभूतस्येत्याह-भूतस्य अतीतस्य भाविनो वा भविष्यतो वा, लोके आधारभूते, तच्च सचेतनं पुरुषादि अचेतनं च काष्ठादि भवति । एतदुक्तं भवति- १५य: पूर्वं स्वर्गादिष्विन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणत: सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात् साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स 'गोपालदारकादिलक्षणस्य नामनिक्षेपस्योपास्यत्वादिकं नास्ति, स्थापनायास्तु तदस्तीति सूक्तमपि विस्मरसि । अपरञ्च स्थापना भावनिक्षेपाभिप्रायिकैव भवति, नाम्नि तु न तथा नियम इत्ययमपि प्रतिविशेषोऽनयोरेतेन प्राप्यत इति ध्येयम् ।
१५. यः पूर्वं स्वर्गादिष्विन्द्रादित्वेन भूत्वेदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयत... इति। ननु कोऽत्र द्रव्येन्द्रत्वेनाभिप्रेतः ? अयमाशयः कस्यचिज्जीवस्य क्रमशः संयतो मनुष्यः, इन्द्रः, मनुष्य इति भवपरंपराऽभूत्... तत्र संयतमनुष्यस्य द्रव्येन्द्रत्वे न कोऽपि प्रश्नः, तस्य तत्कारणत्वात्। किन्तूत्तरकालीनस्य मनुष्यस्य कथं द्रव्येन्द्रत्वम् ? तस्य तत्कारणत्वाभावात्, उत्तरकालीनत्वेनाव्यवहितपूर्वकालीनत्वाभावात्। अथ किमिदं प्रश्न्यते भवता ? यो मनुष्यादित्वेन परिणतः स द्रव्यत इन्द्रादिरभिधीयते इति निरूपयता वृत्तिकारेण मनुष्यादित्वेन परिणतस्य जीवस्यैव द्रव्येन्द्रत्वमुक्तं, न तु मनुष्यस्य, तथा च कथं प्रश्नावकाशः ? तज्जीवस्येन्द्रकारणत्वे विरोधाभावादिति चेत् ? न, तज्जीवस्येन्द्रकारणत्वं यदभिप्रेतं तत्पर्यायविशेषापन्नत्वमपेक्षते न वेति द्वौ विकल्पौ। तत्राद्ये विकल्पे पूर्वकालीनसंयतमनुष्यलक्षणः पर्याय एव पर्यायविशेषत्वेन ग्राह्यः स्यात्, तथा च संयतमनुष्यस्यैव कारणत्वमापतितं, न तूत्तरकालीनस्य मनुष्यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org