________________
२४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पुनरित्वरी स्वल्पकालभाविनी वा स्याद् यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठत इति भावः, तथाहि- नाम आवश्यकादिकं मेरु-जम्बूद्वीप-कलिङ्ग-मगध-सुराष्ट्रादिकं वा यावत् स्वाश्रयो गोपालदारक देहादि: शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्ष: स्थापित: स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा तु यावत्कथिका, तस्याश्च ‘अर्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना' इति १३व्युत्पत्ते: स्थापनात्वमवसेयम्, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयो: कालकृतो विशेष: । अत्राह- ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्, सत्यम्, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भ: सोऽल्पत्वान्नेह विवक्षित इत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डला-ऽङ्गदादिविभूषित: सन्निहितशची-वज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शना भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्रात्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छा-पूजाप्रवृत्ति-समीहितलाभादयो दृश्यन्ते १४नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति ।
१३. यद्वा ‘दर्शकादिना स्वबुद्धावाहार्यारोपेणार्हदादिरूपेण स्थाप्यत इति स्थापना' इत्येवं 'स्थाप्यत इति स्थापना' इति व्युत्पत्तेरपि स्थापनात्वं प्राप्यते इति ध्येयम् ।
१४. नैवं नामेन्द्रादावित्यादि । ननु ‘नामाकृतिद्रव्यभावैः पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ।।' इत्यत्र नामनिक्षेपस्यापि पूजाप्रवृत्तिसमीहितलाभादिहेतुत्वं सूचितमेव । न च तेऽतिशयवतामर्हतामेव नामनिक्षेपे सम्भवन्ति, नान्यत्रेति समाधानं मनःसमाधानकरं, ‘यस्याभिधानं मुनयोऽपि सर्वे गृह्णन्ति भिक्षाभ्रमणस्य काले। मिष्टान्नपानाम्बरपूर्णकामा, स गौतमो यच्छतु वांछितं मे ।।' इति श्री गौतमस्वामिनो नामनिक्षेपेऽपि तत्सम्भवस्य कथितत्वात् । तथा नेतुः श्रेष्ठिनोऽन्यस्यापि वा नाम्नापि कार्याणि सिध्यमानानि दृश्यन्त एवेति चेत्? न, अभिप्रायापरिज्ञानात्, ‘स्थितमन्यार्थे तदर्थनिरपेक्षमि'त्यादिनेन्द्राद्याख्यस्य गोपालदारकादेर्नामेन्द्रादित्वं यदुक्तं तदभिप्रायेणैव तस्य निषिद्धत्वात्, न तु भावेन्द्राभिप्रायेणोच्चार्यमाण इन्द्अ इतिवर्णावलीनिष्पन्नो य 'इन्द्र' इति शब्दस्तदभिप्रायेण। भावनिक्षेपाभिप्रायिकतादृक्शब्दलक्षणस्य नामनिक्षेपस्योपास्यत्वादिकं तु नैवानिष्टमिति। नन्वेवं तु भावनिक्षेपसम्बन्धिन्याः स्थापनाया यथोपास्यत्वादिकं तथैव भावनिक्षेपसम्बन्धिनो नामनिक्षेपस्यापि तत्प्राप्तमेवेति कोऽनयोः प्रतिविशेषः सिद्ध इति चेत् ? अहो विस्मरणशीलताऽऽयुष्मतो यद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org