________________
श्री अनुयोगद्वारसूत्रम् [सू०१२]
२३
(सू० १२) नाम - ट्ठवणाणं को पइविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा ।
च शाश्वतप्रतिमादि । यत् पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदभिप्रायेण क्रियते तत् स्थापने तात्पर्यमित्यार्यार्थः ।
इदानीं प्रकृतमुच्यते - जंणं ति, णमिति वाक्यालङ्कारे, यत् काष्ठकर्मणि वा चित्रकर्मणि वा यावत् वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनावा आवस्सए त्ति आवश्यक-तद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेके वा, कथंभूताः ? अत उच्यते-आवश्यकक्रियावानावश्यकक्रियावन्तो वा, ठवणा ठविज्जति त्ति स्थापनारूप: स्थाप्यते क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः स्थाप्यन्ते क्रियन्ते, तत् स्थापनावश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकर्म्मादिष्वावश्यकक्रियां कुर्व्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत् स्थापनावश्यकमिति तात्पर्यम् ।
अधुना अवयवार्थ उच्यते तत्र क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितं रूपकमित्यर्थः । चित्रकर्म चित्रलिखितं रूपकम् । पोत्थकम्मे वत्ति, अत्र पोत्थं पोतं वस्त्रमित्यर्थः, तत्र कर्म्म, तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं पुस्तकम्, तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म्म, तन्मध्ये वर्त्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं ताडीपत्रादि तत्र क तच्छेदनिष्पन्नं रूपकम्। लेप्यकर्म्म लेप्यरूपकम् । ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकम्। वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम्, अथवा एकं द्व्यादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकम् उत्थापयति तद्वेष्टिमम् । पूरिमं भरिमं पित्तलादिमयप्रतिमावत् । संघातिमं बहुवस्त्रादिखण्डसंघातनिष्पन्नं कञ्चुकवत् । अक्ष: चन्दनकः । वराटक: कपर्दकः । अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दा: पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि । एतेषु काष्ठकर्मादिषु आवश्यकक्रियां कुर्व्वन्त: एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम्, तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषु त्वनाकारवती असद्भावस्थापना, साध्वाद्याकारस्य तत्रासद्भावादिति । निगमयन्नाह - सेत्तमित्यादि, तदेतत् स्थापनावश्यकमित्यर्थः ।
अत्र नाम-स्थापनयोरभेदं पश्यन्निदमाह - नाम-ठवणाणं को पविसेसो त्ति । नाम-स्थापनयोः कः प्रतिविशेषः ?, न कश्चिदित्यभिप्रायः, तथाहि आवश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमात्रे क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेष:, अत्रोत्तरमाह - नामं आवकहियमित्यादि, नाम यावत्कथिकं स्वाश्रयद्रव्यस्याऽस्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराऽप्युपरमते, स्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org