________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ११) से किं तं ठवणावस्सयं ? ठवणावस्सयं - जण्णं कट्ठकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगो वा सब्भावठवणाए वा असब्भावठवणाए वा आवस्सए त्ति ठवणा ठविज्जति सेतं ठवणावस्सयं । सकनाम सिद्धम्, अजीवानां तु यथा नीडं पक्षिणामावास उच्यते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावासकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते-तत्र गृहदीर्घिकाऽशोकवनिकाद्युपशोभित: प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधर्मादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जल-वृक्षादय: सचेतनरत्नादयश्च जीवा:, इष्टका-काष्ठादयोऽचेतनरत्नादयश्चाऽजीवा:, तन्निष्पन्नमुभयम्, तस्य कप्रत्ययोपादाने आवासकसंज्ञा सिद्धा। उभयानां त्वावासकसंज्ञा यथा- संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूर्ण: सौधर्मादिकल्पो वा इन्द्रादीनामावासोऽभिधीयते, अत्र च पूर्वोक्तप्रासादविमानयोर्लघुत्वादेकमेव जीवाजीवोभयं विवक्षितम्, अत्र तु नगरादीनां सौधर्मादिकल्पानां च महत्त्वाद् बहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्य:, एवमन्यत्रापि जीवादीनामावासकसंज्ञा यथासंभवं भावनीया, दिग्मात्रप्रदर्शनार्थत्वादस्य । निगमयन्नाह- सेत्तमित्यादि, सेतमित्यादि वा क्वचित् पाठः, तदेतन्नामावश्यकमित्यर्थः ।
इदानीं स्थापनावश्यकनिरूपणार्थमाह- से किं तमित्यादि । अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह- ठवणावस्सयं जण्णमित्यादि, तत्र स्थाप्यते ‘अमुकोऽयम्' इत्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना काष्ठकर्मादिगतावश्यकवत्साध्वादिरूपा, सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकम्, स्थापनालक्षणं च सामान्यत इदम्
यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥१॥ ( ) इति,
विनेयानुग्रहार्थमत्रापि व्याख्या- तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, स चासावर्थश्च तदर्थो भावेन्द्र-भावावश्यकादिलक्षणस्तेन वियुक्तं रहितं यद्वस्तु तदभिप्रायेण भावेन्द्राद्यभिप्रायेण क्रियते स्थाप्यते तत् स्थापनेति सम्बन्ध:, किंविशिष्टं यदित्याह-यच्च तत्करणि, तेन भावेन्द्रादिना सह करणि: सादृश्यं यस्य तत् तत्करणि, तत्सदृशमित्यर्थः । चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, अतत्सदृशमित्यर्थः । किं पुनस्तदेवंभूतं वस्त्वित्याह- लेप्यादिकर्मेति, लेप्यपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारम् । कियन्तं कालं तत् क्रियत इत्याह-अल्प: कालो यस्य तदल्पकालम्, इत्वरकालमित्यर्थः । चशब्दाद्यावत्कथिकं व्युत्पत्तिलभ्यस्यार्थस्य सत्त्वं मत्त्वा भावनिक्षेपत्वं पर्यायाभिधेयत्वं चोपपादनीयमित्यस्माकमाभाति । अधिकं निक्षेपविंशिकायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org