________________
३४४
उज्जुसुए सद्दे समभिरू एवंभूते । तत्थ
हिं माणेहिं मिणइ त्ती णेगमस्स य निरुत्ती १ । साणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ।। १३६ ।। संगहियपिंडियत्थं संगहवयणं समासओ र्बेति २ । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ३ |।१३७।। पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयव्वो ४ । इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो ५ ।। १३८ ।। तत्रोत्तरोत्तरभेदापेक्षया सप्तैव मूलभूता नया मूलनया:, तद्यथा नैगम इत्यादि । तत्र नैगमं व्याचिख्यासुराह- णेगेहिमित्यादि गाथा, व्याख्या - न एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः महासत्ता-सामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगम:, इतीयं नैगमस्य निरुक्तिः व्युत्पत्तिः, अथवा निगमा लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहव: परिच्छेदास्तेषु भवो नैगमः । शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः ।
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
यथाप्रतिज्ञातमेवाह - संगहियगाहा, व्याख्या सम्यग् गृहीत उपात्त: सङ्गृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत् सङ्गृहीतपिण्डितार्थं सङ्ग्रहस्य वचनं सङ्ग्रहवचनं समासतः संक्षेपतो ब्रुवते तीर्थकर गणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सङ्गृहीतसामान्यार्थमेव भवति, अत एव सङ्गृह्णाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते, युक्तिश्चात्र लेशतः प्राग्दर्शितैव ।
वच्चईत्यादि, निराधिक्ये, चयनं चयः पिण्डीभवनम् अधिकश्चयो निश्चयः सामान्यम्, विगतो निश्चयो विनिश्चयो विसामान्यभाव:, तदर्थं तन्निमित्तं व्रजति प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः, क्व ? सर्वद्रव्येषु सर्वद्रव्यविषये, लोके हि घट- स्तम्भाऽम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात् सामान्यमसौ नेच्छतीति भाव:, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशतः प्रागुक्तैव । अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः, तदर्थं व्रजति व्यवहारनयः सर्वद्रव्येषु, इदमुक्तं भवति यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव क्वचिदेकस्मिन् स्थूले नीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org