________________
श्री अनुयोगद्वारसूत्रम् [सू०६०६ ]
सेतं सुत्तफासियनिज्जुत्तिअणुगमे । सेतं निज्जुत्तिअणुगमे । सेतं अणुगमे । ( सू० ६०६ ) से किं तं गए ? सत्त मूलणया पण्णत्ता । तंजहा-णेगमे संगहे ववहारे करोमि भयान्त सामायिकमित्यादि । पदं तु करोमीत्येकं पदम्, भयान्त इति द्वितीयम्, सामायिकमिति तृतीयम् इत्यादि । पदार्थस्तु करोमीत्यभ्युपगमः, भयान्त इति गुर्वामन्त्रणम्, समस्याऽऽय: सामायिकमित्यादिकः । पदविग्रहः समासः, स चानेकपदानामेकत्वापादानविषयो यथा भयस्यान्तो भयान्त इत्यादि । १३२सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना । तस्यैवानेकोपपत्तिभिस्तथैव स्थापन प्रसिद्धिः । एते च चालना - प्रसिद्धी आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव विस्तरवत्यौ द्रष्टव्ये । एवं षड्विधं विद्धि जानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद्गम्यते इति श्लोकार्थः ।
अत्राह- नन्वस्याः षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषयः को वा सूत्रालापकनिक्षेपस्य ? कश्च सूत्रस्पर्शकनिर्युक्तेः ? किं वा नयैर्विषयीक्रियते ? उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नाम-स्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थ-पदविग्रहादिनियोग: सर्वोऽपि सूत्रस्पर्शकनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्राय: स पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शकनिर्युक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार:- होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयागमो ।
सुत्तालावगनासो नामाइन्नासविणिओगं || १ || सुत्तफासियनिज्जुत्तिणिओगो से पत्थई ।
पाय सोच्चि गमनयाइमयगोयरो होइ || २ || (विशेषावश्यक भा०१००९-१०१०) अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत् समाप्यन्ते यत आह भाष्यसुधाम्भोनिधि:
सुत्तं सुत्तागमो सुत्तालावयकओ य निक्खेवो ।
सुत्तप्फासियनिज्जुत्ती नया य समगं तु वच्चति ॥ | १ || (विशेषावश्यकभा० १००११) इत्यलं विस्तरेण । सेतं अणुगमे त्ति अनुगमः समाप्तः ।
अथ नयद्वारमभिधित्सुराह - से किं तं नए इत्यादि । अथ कोऽयं पूर्वोक्तशब्दार्थो नयः ?
३४३
१३२. सूत्रस्यार्थस्य वाऽनुपपत्त्युद्भावनं चालनेति । ननु सूत्रे काऽनुपपत्तिः सम्भवति ? इयं-व्याकरणापेक्षया छन्दोभङ्गाद्यपेक्षया वाऽनुपपत्तिः सम्भवतीति ज्ञेयम् । तदुक्तं विशेषावश्यकभाष्यवृत्तौ शब्दार्थन्यायतः- शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्त्या शब्दगतदूषणस्य परिहारः ||१००७ वृत्तिः । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org