________________
३४२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं बंधपयं वा मोक्खपयं वा सामाइयपयं वा णोसामाइयपयं वा । तो तम्मि उच्चारिते समाणे केसिंचि भगवंताणं केइ अत्थाहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, ततो तेसिं अणहिगयाणं अत्थाणं अभिगमणत्थाए पदेणं पदं वत्तइस्सामि -
संहिता य पदं चेव पदत्थो पदविग्गहो ।
चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१३५।। युक्तमस्तोभकम्, अनवयं कामादिपापव्यापाराप्ररूपकम्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्टौ सूत्रगुणा: प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणांस्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रहं प्रतिपादयन्ति । ____ एवं च सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत् स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदम्, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदम् । अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके । अन्ये तु व्याचक्षते प्रकृति-स्थित्यनुभाव-प्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति।
आह- नन्वत्र व्याख्याने बन्ध-मोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत् किमिति भेदेनोपन्यास: ? सत्यम्, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति । सामायिकव्यतिरिक्तानां नारक-तिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोच्चारणस्य फलं दर्शितम् । इदमुक्तं भवति- यत: सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगता: परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्तयिष्यामि एकैकं पदं व्याख्यास्यामीत्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह- संहिया येत्यादि, १३१तत्रास्खलितपदोच्चारणं संहिता, यथा
१३१. तत्रास्खलितपदोच्चारणं संहितेति । नन्वर्थकथनं व्याख्योच्यते । ततश्चास्खलिपदोच्चारणं कथं व्याख्याङ्गमिति ? प्रश्ने प्रतिवचनमिदं ज्ञेयं- व्याख्याऽर्थबोधार्थं भवति । ततश्च येन येनार्थबोधो भवति तत्सर्वं व्याख्याङ्गम् । अस्खलितादिगुणोपेतं यथा स्यात्तथा सूत्र उच्चारितमात्र एव केषाञ्चिद् मेधाविसाधूनां केचिदर्थाधिकाराः परिज्ञाता भवन्ति । परंतु यदि सूत्रोच्चारणे स्खलनादिदोषाः स्युस्तदा न तथाऽर्थबोधो भवतीत्यस्खलितादिगुणोपेतसूत्रोच्चारलक्षणायाः संहिताया व्याख्याङ्गत्वे न काऽपि शङ्केति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org