________________
श्रीअनुयोगद्वारसूत्रम् [सू०६०५]
वनं प्रविशतीत्याह २१ । यतिदोषोऽस्थानविरति: सर्वथाऽविरतिर्वा २२ । छविः अलङ्कारविशेषस्तेन शून्ये विदोष: २३ । समयविरुद्धं स्वसिद्धान्तविरोधि यथा सावयस्यासत् कारणे कार्यं वैशेषिकस्य वासदिति २४ | वचनमात्रं निर्हेतुकम्, यथा कश्चिद्यथेच्छया कञ्चित् प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति २५ । यत्रार्थापत्त्याऽनिष्टमापतति तदर्थापत्तिदोषो यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति २६ । यत्र समासविधिप्राप्तौ समासं न करोति तत्रासमासदोषः २७ । उपमादोषो यत्र हीनोपमा क्रियते यथा मेरुः सर्षपोपमः, अधिकोपमा वा क्रियते यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि २८ । रूपकदोषः स्वरूपभूतानामवयवानां व्यत्ययो यथा पर्वते रूपयितव्ये शिखरादींस्तदवयवान् रूपयति अन्यस्य वा समुद्रादेः सम्बन्धिनोऽवयवाँस्तत्र रूपयतीति २९ । निर्देशदोषो यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते ३० । पदार्थदोषो यत्र वस्तु पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते तच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति ३१ । यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोष: ३२ । एते द्वात्रिंशत् सूत्रदोषाः, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम् ।
अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते । ते चेमे गुणा:निद्दोसं सारवंतं च हेउजुत्तमलंकियं ।
उवणीयं सोवयारं च मियं महुरमेव य ||१|| ( आवश्यकनि०८८५)
तत्र निर्दोषं सर्वदोषविप्रमुक्तम् १ । सारवद् गोशब्दवद् बहुपर्यायम् २ | हेतवः अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३ । उपमोत्प्रेक्षाद्यलङ्कारैरलङ्कृतम् ४ । उपनयोपसंहृतमुपनीतम् ५। ग्राम्यभणितिरहितं सोपचारम् ६ । वर्णादिनियतपरिमाणं मितम् ७ । श्रवणमनोहरं मधुरम् ८ । अन्यैश्च कैश्चिद् षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथाअप्पक्खरमसंदिद्धं सारखं विस्सओमुहं ।
अत्थोभमणवज्जं च सुत्तं सव्वण्णुभासि || १ || ( आवश्यकनि०८८६)
तत्राल्पाक्षरं मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं सैन्धवशब्दवद्यल्लवण-वसनतुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम्, यथा धम्मो मंगलमुक्किट्टं ( दशवै० १११ ) इत्यादि श्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिँश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभका: चकार - वाशब्दादयो निपातास्तैर्वि
Jain Education International
३४१
For Private & Personal Use Only
www.jainelibrary.org