________________
३४०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
३ | असम्बद्धार्थकमपार्थक, यथा- दश दाडिमानि, षडपूपा:, कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४ । यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम्, यथा नवकम्बलो देवदत्त इत्यादि ५ । जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं लिम्, यथा
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः || १ ||
पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते ।
न हि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ||२|| ( ) इत्यादि ६ ।
(
वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारम् ७ । अक्षर - पदादिभिरतिमात्रमधिकम् ८, तैरेव हीनमूनम्, अथवा हेतोर्दृष्टान्तस्य वाऽऽधिक्ये सत्यधिकम्, यथा- अनित्यः शब्दः कृतकत्व-प्रयत्नानन्तरीयकत्वाभ्यां घट - पटवदित्यादि । एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्य:, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भाव: । हेतु दृष्टान्ताभ्यामेव हीनमूनम्, यथाअनित्यः शब्दो घटवदिति, तथा अनित्यः शब्दः कृतकत्वादित्यादि ९ । पुनरुक्तं द्विधा शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तम्, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घटः कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो वा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुङ्क्त इति, तत्रार्थापन्नमपि य एतत् साक्षाद् ब्रूयात्तस्य पुनरुक्तता १० । व्याहतं यत्र पूर्वेण परं विहन्यते यथा कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम् ) इत्यादि ११ । अयुक्तमनुपपत्तिक्षमं यथा तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभि: ( ) इत्यादि १२ । क्रमभिन्नं यत्र क्रमो नाराध्यते यथा स्पर्शन- रसन-प्राण- चक्षुः - श्रोत्राणामर्थाः स्पर्श-रस- गन्धरूप-शब्दा इति वक्तव्ये स्पर्श-रूप- शब्द - गन्ध-रसा इति ब्रूयात् इत्यादि १३ | वचनभिन्नं यत्र वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिता इत्यादि १४ । विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः, यथा वृक्षं पश्य इति वक्तव्ये वृक्ष: पश्य इति ब्रूयादित्यादि १५ । लिङ्गभिन्नं यत्र लिङ्गव्यत्ययः, यथा अयं स्त्रीत्यादि १६ । अनभिहितं स्वसिद्धान्तेऽनुपदिष्टम्, यथा सप्तमः पदार्थो वैशेषिकस्य, प्रकृतिपुरुषाभ्यधिकं सावयस्य, दुःख समुदय-मार्ग-निरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि १७ | यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदम्, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि १८, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत् स्वभावहीनम्, यथाशीतो वह्निः, मूर्तिमदाकाशमित्यादि १९ । यत्र प्रकृतमुत्सृज्याऽप्रकृतं व्यासतोऽभिधाय पुन: प्रकृतमुच्यते तद्व्यवहितम् २० | कालदोषो यत्रातीतादिकालव्यत्ययः यथा रामो वनं प्रविवेशेति वक्तव्ये रामो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org