________________
श्रीअनुयोगद्वारसूत्रम् [सू०६०५ ]
( सू० ६०५ ) से किं तं सुत्तप्फासियनिज्जुत्तिअणुगमे ? सुत्तप्फासियनिज्जुत्तिअणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठो विप्पमुक्कं गुरुवायणोवगयं । तो तत्थ णज्जिहिति ससमयपयं वा परसमयपयं वा तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनिर्युक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति । ततः प्रत्यवयवं सूत्रव्याख्यानरूपायाः सूत्रस्पर्शकनिर्युक्तेरवसरः संपद्यते । सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽप्यवसर प्राप्त एव, ततस्तभिधित्सुराह - सुत्तं उच्चारेयव्वं अखलियमित्यादि ।
आह - ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शकनिर्युक्त्या प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ? यावता सूत्रानुगमं निर्दिश्य पश्चात् किमिति नोच्यते ? सत्यम्, किन्तु निर्युक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः ।
३३९
प्रकृतमुच्यते - तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग् द्रव्यावश्यकविचारे कृता थै द्रष्टव्या, अयं च सूत्रदोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणम्, तच्चेदम्
अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च ।
लक्खणत्तं सुतं अहि य गुणेहि उववेयं ॥ १ ॥ ( आवश्यक नि०८८०)
अस्या व्याख्या- अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः, उत्पादव्ययध्रौव्ययुक्तं सत् (तत्त्वार्थ० ५।२९) इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः । यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीया: ? उच्यते
अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुत्तं वाहतमत्तं ॥ १ ॥
कमभिन्नवयणभिन्नं विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपदमेव य सभावहीणं ववहियं च ॥२॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमेत्तं च । अत्थावत्तदोसो नेओ असमासदोसो य || ३ ||
उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य ।
ते उ त्तदोसा बत्ती हुति नायव्वा ॥४॥ ( आवश्यकनि०८८१-८८४)
तत्रानृतमभूतोद्भावनं भूतनिह्नवश्च यथा ईश्वरकर्तृकं जगदित्याद्यभूतोद्भावनम्, नास्त्यात्मेत्यादिकस्तु भूतनिह्नवः १ | उपघातः सत्त्वघातादिः, तज्जनकं यथा 'वेदविहिता हिंसा धर्माय' इत्यादि २ । निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थः, यथा अ आ इ ईत्यादि डित्थादिवद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org