________________
श्री नवखंडा पार्श्वनाथाय नमः ॥ वर्धमानतपोनिधिपूज्याचार्यश्रीविजयभुवनभानुसूरीश्वरो विजयतेतराम् ।।
यत्किञ्चिद् वक्तव्यता हं भो भव्यजना ! इह खलु शारीरमानसाधने कदुःसहदुःखोमिभीषणे नारक - तिर्यगादिगतिनक्र वालेऽस्मिन् भवाब्धौ पटुप्रवहणकल्पं दुःषमाकालमरौ कल्पद्रुमायमाणं सकललोकातिशायिपरमसाम्राज्यं निखिलनयवीथिसंकुलं जैनेन्द्रप्रवचनं कथमपि समवाप्य विषयकषाय-प्रमादादिषु लालसमानसं कर्तुं युक्तम् । न च लौकिकतीर्थिकाचारप्रकरेषु जंभ्रमितव्यं, यतः एतत्प्रवचन विना सर्वेऽपि शिरस्तुण्डमुण्डनादिबाह्यक्रियाकलापाः मोक्षजननेऽन्यथासिद्धाः ।
__ अत्र प्रवचने बहवो योगाः मोक्षाख्यफलजनका यद्यपि सन्ति, तथाऽपि ते ज्ञानं विना न यथोक्तफलदा भवन्ति, अतः सम्यग्ज्ञाने यतितव्यमेव । सम्यग्ज्ञानं चार्थतस्तीर्थकरप्रणीतं सूत्रतश्च गणधरोपनिबद्धं द्वादशाङ्गीरूपम्। यतः सर्वे तीर्थकराः समस्तवस्तुस्तोमस्वभावावभासिकेवललोकावाप्तौ प्रथमं मातृकापदत्रयमुच्चारयन्ति, तदुपजीव्य च बीजबुद्धिस्वामिनो गणधरा द्वादशाङ्गीमंतर्मुहूर्त्तकालेनैव रचयन्ति । एतदनुयोगद्वारसूत्रं भगवद्वचनरूपागमनगरे सुखप्रवेशाय द्वारकल्पम् । श्रुतकेवलिचतुर्दशपूर्वधर श्री भद्रबाहुस्वामिपादैः सर्वत्राऽऽगमनियुक्तिषु अनुयोगद्वारविषयनिक्षेपादिप्ररूपणपूर्वक आगमसूत्राणि व्याख्यातानि । पूज्यपादश्रीजिनभद्रगणिक्षमाश्रमणैः श्रीविशेषावश्यकभाष्यनामकमहाग्रन्थे अनुयोगद्वाराणि विस्तरेण प्ररूपितानि । ततश्चागमरूपमहाप्रासादप्रवेशाय कपाटकल्पमनुयोगद्वारसूत्रं यावन्नोद्घाटितं, तावदागमप्रासादे प्रवेष्टुं वयं कथं समर्थाः? अतस्तदुद्घाटनमावश्यकम् ।
प्रकृतसूत्रोपरिपूर्वाचार्यश्रीजिनदासगणिग्रथिता चूर्णिः, याकिनीमहत्तरासुनुविरहांकांकितानेकग्रन्थप्रणेतृणां श्रीमद्धरिभद्रसूरिवर्याणां विवृतिश्च विद्येते, परंतु तयोः संक्षिप्तत्वादधुना श्रीमलधारगच्छीयश्रीहेमचन्द्रसूरीणां सरला बृहट्टीकाऽध्ययनाध्यापनेषु प्रचलिता वर्त्तते ।।
तट्टीकागतेषु केषुचित् स्थानेषु प्रपश्चितज्ञधीषणानां मादृशजनानां हिताय तपागच्छीयाचार्यश्री विजयप्रेम-भुवनभानुसूरीश्वरसमुदायतिलकैः, कर्मशास्त्रनिपुणमति-सहजानंदि आचार्य श्री विजय धर्मजितसूरीश्वरप्रशिष्यैः, सूरिमंत्र पंचप्रस्थानसमाराधक-दक्षिणमहाराष्ट्रप्रभावकपूज्याचार्य श्री विजय जयशेखरसूरिवरशिष्यशेखरैः, अस्मद्विद्यागुरुवर्यैः स्मारितपूर्वाचार्यप्रतिभैः न्यायागमकर्मशास्त्रादिपरिशीलितमतिभिः चारित्रनिबध्दैककक्षैः पञ्चाचारपालनप्रवणैः श्री विजय अभयशेखरसूरिवरैः गूढरहस्योद्घाटकं नूनं टिप्पनकं रचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org