________________
४
टिप्पनकमिदं सूत्रवृत्त्यो रहस्योद्घाटने प्रदीपकल्पम् ।
निखिलानि टिप्पनकानि स्वतंत्रग्रन्थजातीयानि, सूत्रोक्तपदार्थेषु हेतुगवेषणार्थं स्वयमनुप्रेक्षितानां नैकेषां रहस्यानामाविष्कृतत्वात् । टिप्पणेऽस्मिन् चर्चितविषयाणां लेशतः प्रदर्शनप्रयासो विधीयते यतः स ग्रन्थेऽस्मिन् जिज्ञासूनां प्रवृत्तिहेतुर्भविष्यति ।
यत्किञ्चिद् वक्तव्यता
(१) सम्यगधीताचाराङ्गादिसूत्रस्य साधोः यदैव सूत्रदानानुज्ञा क्रियते तदैव तदनुयोगदानानुज्ञा न दीयते, अपि तु अनुयोगाचार्य (पंन्यास) पदप्रदानावसरे सर्वानुयोगानुज्ञा समकालमेव दीयत इति शास्त्रोक्तविधाने यो हेतुः स तर्कपुरस्सरं सुष्ठु निर्णीतः सूरिवरैः । (२) नैगम-व्यवहारयोः आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्त्तन्ते इति भागद्वारविषयकसूत्रे 'शेष' इत्यत्र प्राकृतत्वादार्षत्वाद्वा 'अ'कारलोपो मत्वा अशेष इति पदं मन्तव्यम् इति सूचयित्वा सूत्रसङ्गतिर्दशिता ।
(३) द्रव्यतः अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्येभ्यः अनन्तगुणानि इत्यक्षराणि सूत्र उपलभ्यन्ते, तथापि तत्रादर्शलेखकस्य कोऽपि प्रमादो मन्तव्यः, सङ्ख्याशास्त्रानुसारेण तेषामसंख्येयगुणानामेव संभवादिति किञ्चिदपूर्वं प्रदर्शितम् ।
(४) क्षेत्रतः अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्येभ्यः अधिकानि अल्पानि वेत्यादि विचारप्रक्रमे सूत्रे त्वनानुपूर्वीद्रव्याणि अधिकानि एव कथितानि, तथाऽपि सूरिशेखरैः प्रतर- श्रेण्यादिस्थापनया प्रथममवक्तव्यकद्रव्याणां बाहुल्यं पूर्वपक्षद्वारेण स्थापितं पश्चाच्चानानुपूर्वीद्रव्याणां सूत्रोक्तस्य बाहुल्यस्य संगतिः कथं साधनीयेति दर्शयित्वा विपश्चितां मनांसि प्रीणितानि । (५) कालस्य सूक्ष्मतमांशः समयो विभाज्योऽविभाज्यो वेति प्रश्नमुत्थाप्य पश्चात् पैसक-तिलकचणकानां व्यावहारिकदृष्टान्तेन समयस्य कालापेक्षयाऽविभाज्यत्वं क्षेत्रापेक्षया च विभाज्यत्वं स्याद्वादशैल्या सुस्थापितम् ।
(६) सर्वजीवानामद्य यावदनन्ता औदारिकादिपुद्गलपरावर्त्ता अतीता इत्येतत्पदार्थस्य सर्वेषामेव अविगानेन प्रतिपत्तिः तथाऽपि संख्याशास्त्रानुसारेण चिन्त्यमाने कस्यापि जीवस्य नैकोऽपि पुद्गलपरावर्तो व्यतीतः संभवत्यतः शास्त्रेऽनन्ताः पुद्गलपरावर्त्ता व्यतीता इति यत् श्रूयते तत्र पुद्गलपरावर्त्तस्य काचिदन्यैव परिभाषा भवेदिति तर्निणयार्थमाचार्यवर्यैः बहुश्रुतगीतार्था एव प्रमाणीकृताः ।
(७) क्रोडीकृतसर्वदृष्टौ नैगमनये सूत्रोक्तशुद्धत्व - अशुद्धत्व - विशुद्धतरत्वादिकं किमिति प्रश् टिप्पनककारैः व्यवहारनयापेक्षयास्याऽशुद्धतरत्वादिकं ज्ञापितम् । तथा व्यवहारादस्य विशेषोऽपि स्पष्टीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org