________________
यत्किञ्चिद् वक्तव्यता
अन्येषु च शताधिकस्थानेषु टिप्पनकानि ग्रन्थेऽस्मिन् आलेखितानि येषु अदृष्टपूर्वाः स्वयमनुप्रेक्षिताः पदार्थाः विद्यन्ते, तथाऽपि तान् दृष्ट्वा न कोऽपि संमोहः कर्त्तव्यः, यतोऽ कर्त्तारो मार्गस्थतर्कविशुद्धक्षयोपशमाः सन्ति, तथा पूज्यपादसिद्धांतदिवाकर - गीतार्थमूर्धन्यवर्तमानगच्छाधीशा श्रीविजयजयघोषसूरीश्वरा अस्य संशोधयितारः सन्ति ।
अपरं च टिप्पनककृतामपरा अपि कृतयस्सप्तभंगीविंशिका, निक्षेपविंशिकादयः सन्ति या अतिगभीरदुर्गमविषये प्रवेशाय तारिकाकल्पा भवेयुः । किं बहुना ?
स्वानुप्रेक्षाफलं नूनं ग्रन्थेऽस्मिन् यत्प्रपञ्चितम् ।
तर्कपुष्टमहोभावजनकं विदुषां कुले ।।
सङ्घसमक्षं नवीनमुपस्कर्तॄनाचार्यान् शतशः वन्दे, अन्यरचनाद्वारा सङ्घमुपकुर्वन्तु चेति
प्रार्थये ।
यावद् स्वर्भानुः समयक्षेत्रं प्रकाशते तावदयं सटिप्पनकग्रन्थभानुरागमक्षेत्रं दीपयतु । शुभं भवतु श्री श्रमणसङ्घस्य ।
Jain Education International
मुनि हृदयवल्लभविजयः पोषशुक्लपूर्णिमा, वि.सं. २०६३ घोघातीर्थ- सौराष्ट्र.
આ ગ્રન્થ પ્રકાશનનો સંપૂર્ણ લાભ પોતાના જ્ઞાનનિધિમાંથી લેવા બદલ
શ્રી જૈન શ્વેતાંબર મૂર્તિપૂજક સંઘ ઈસ્લામપુર
ને લાખ લાખ ધન્યવાદ
For Private & Personal Use Only
www.jainelibrary.org