________________
१२६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० १६४) अहोलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।
(सू० १६५) से किं तं पुव्वाणुपुव्वी? पुव्वाणुपुवी- रयणप्पभा १, सक्करप्पभा २, वालुयप्पभा ३ ,पंकप्पभा ४, धूमप्पभा ५, तमप्पभा ६, तमतमप्पभा ७ । सेतं पुव्वाणुपुव्वी।
(सू० १६६) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- तमतमा ७ जाव रयणप्पभा १ । सेतं पच्छाणुपुव्वी।
(सू० १६७) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए सत्तगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी। मध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः । पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव। अनानुपूर्त्यां तु पदत्रयस्यास्य षड् भङ्गा भवन्ति, ते च पूर्वं दर्शिता एव । शेषभावना त्विह प्राग्वदेवेति । अत्र च क्वचिद्वाचनान्तरे एकप्रदेशावगाढादीनाम् असङ्ख्यातप्रदेशावगाढान्तानां प्रथम पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते सोऽपि क्षेत्रानुपूळधिकारादविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति। ___साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुरधोलोकादीनां च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह - अहोलोकखेत्ताणुपुव्वी तिविहेत्यादि । अधोलोकक्षेत्रविषया आनुपूर्वी अधोलोकक्षेत्रानुपूर्वी, औपनिधिकीति प्रक्रमाल्लभ्यते, सा त्रिविधा प्रज्ञप्ता, तद्यथेत्यादि शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि । इन्द्रनीलादिबहुविधरत्नसम्भवान्नरकवर्ज प्रायो रत्नानांप्रभा ज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणाम् उपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा परुषपांशूत्कररूपाया: प्रभा स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमस: प्रभा यस्यां सा तम:प्रभा, कृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमस: प्रभा यस्यां सा महातम:प्रभा, अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत् तमस्तमस्तमः, तद्रूपद्रव्ययोगात् तमस्तमा इति । अत्र प्रज्ञापकप्रत्यासत्ते रत्नप्रभाया आदावुपन्यास:, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वम्, व्यत्ययेन पश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्यां द्रष्टव्यानीति, शेषभावना पूर्ववदिति ।
तिर्यग्लोकक्षेत्रानुपूर्त्यां जंबुद्दीवे इत्यादिगाथा । व्याख्या- द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाऽऽहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिन: पान्तीति द्वीपा: जन्त्वावासभूतक्षेत्रविशेषाः, सह मुद्रया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org