SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०१६१-१६३] १२५ ( सू० १६१ ) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी - अहोलोए १, तिरियलोए २, उलो ३ । सेतं पुव्वाणुपुव्वी । (सू० १६२) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी - उड्ढलोए ३, तिरियलोए २, अहोलो १ । से तं पच्छाणुपुव्वी । (सू० १६३) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए तिगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । ६९एकस्मादधस्तनप्रतरादारभ्याऽधोऽभिमुखं नव योजनशतानि परिहृत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः । तत्र लोक्यते केवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधो व्यवस्थितो लोकोऽधोलोकः । अथवा अधः शब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाऽशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्द्रव्ययोगादधः अशुभो लोकःऽधोलोकः । उक्तं चअहव अहोपरिणामो खेत्तणुभावेण जेण ओसण्णं । असुभ अहो त्ति भणिओ दव्वाणं तेणऽहोलोगो || १ || ( ) त्ति तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहृत्य परतः किञ्चिन्न्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः । ऊर्ध्वम् उपरि व्यवस्थितो लोकः ऊर्ध्वलोकः, अथवा ऊर्ध्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्ति, अतः शुभपरिणामवद्द्रव्ययोगादूर्ध्वः । शुभो लोक ऊर्ध्वलोकः, उक्तं च उड्डुं ति उवरि जं ठिय सुभखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जंति सुभा वा तेण तओ उड्डलोगोत्ति ||१|| ( ) तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादश योजनशतानि तिर्यग्लोकः । समयपरिभाषया तिर्यग् मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः । अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र च क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि भवन्ति, अतस्तद्योगात्तिर्यङ् मध्यमो लोकस्तिर्यग्लोकः । अथवा स्वकीयोर्ध्वाऽधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः । उक्तं च झणुभावं खेत्तं जं तं तिरियंति वयणपज्जवओ । भण्णइ तिरियं विसालं अतो व तं तिरियलोगो ति ॥ १ ॥ ( वयणपज्जवओ त्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्द्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरि ६९. एकस्मादधस्तनप्रतरादित्यादि । एतदधस्तनप्रतरगतः प्रतरबाहल्यरूप एको नभःप्रदेशोऽप्येषु नवसु योजनशतेषु समाविष्टो ज्ञेयः । एवमेवोपरितनप्रतरगतो नभःप्रदेशोऽप्यूर्ध्वाभिमुखनवयोजनशतेषु समाविष्टो ज्ञेयः, अन्यथा तिर्यग्लोकोच्छ्रयस्य तत्प्रदेशद्वयाधिक्यप्रसङ्गात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy