SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ततश्च प्रश्न उद्भवति यद् रुचकस्याष्टप्रदेशात्मकत्वं कथम् ? एकप्रदेशात्मकत्वमेव भवतु, यस्य कस्यचित् समवस्तुनः केन्द्र'इत्यपरनाम्नो मध्यबिन्दोरेकत्वेन प्रसिद्धेरिति । अत्रोत्तरं शृणुएकादशप्रदेशायतायाः सूचिश्रेणेमध्यबिन्दुत्वेन षष्ठः प्रदेशो यथा निःशङ्क कथ्यते तथा दशप्रदेशायतायाः सूचिश्रेणेमध्यत्वेन कतमः प्रदेशः शक्यः कथयितुमिति चिन्त्यताम् । न केवल पञ्चम एव, न वा केवलः षष्ठ एव प्रदेशो मध्यबिन्दुत्वेन शक्यकथन इति तौ द्वावपि मध्यत्वेन कथयितव्यौ भवत एव । ननु तयोर्द्वयोर्मध्यभाग एव मध्यत्वेन कथनीय इति चेत् ? न, अव्यवधानेनावस्थितयो योनभःप्रदेशयोर्मध्ये मध्यभागस्यासम्भवात्। अथ दशप्रदेशायतदशसूचिश्रेणिनिर्मितस्य प्रतरस्य मध्यबिन्दुश्चिन्त्यताम् । तत्रापि यद्योजःसङ्ख्याका: श्रेणयः स्युस्तदैका श्रेणिमध्यत्वेन शक्यकथना स्यात्। किन्त्वस्मत्कल्पनायां श्रेणीनां युग्मसङ्ख्याकत्वेन न पञ्चमी न वा षष्ठ्येकैव श्रेणिमध्यत्वेन शक्यकथना। अतस्ते द्वे अपि श्रेणी मध्यगते' इत्येव कथयितुं शक्यते । तयोश्च द्वयोरपि युग्मसङ्ख्याकप्रदेशायतत्वेन मध्यगतौ द्वौ द्वौ प्रदेशौ मध्यत्वेन कथनीयाविति कल्पितस्य प्रतरस्य मध्यत्वेन पञ्चमश्रेणिगतौ ४५-४६ इत्यङ्कितौ द्वौ प्रदेशौ, षष्ठश्रेणिगतौ च ५५-५६ इत्यङ्कितौ द्वौ प्रदेशावित्येवमनन्यगत्या चत्वारः प्रदेशा मध्यत्वेन कथनीयाः स्युरेव । अधुना शत-शतप्रदेशप्रमाणप्रतरदशकनिष्पन्नो घनो विचार्यते। अत्रापि प्रतराणां सङ्ख्या यद्योजोलक्षणा ('एकी' इति भाषायां) स्यात्, यथा नव, तदा पञ्चमप्रतरलक्षणमेकमेव प्रतरं मध्यप्रतरत्वेन शक्यं स्यात्कथयितुम् । परन्त्वस्मत्कल्पनायां सा सङ्ख्या दशत्वेन युग्मरूपा ('बेकी' इति भाषायां) यतो वर्ततेऽतः पञ्चमं षष्ठं चेत्येवं द्वे अपि प्रतरे मध्यत्वेन कथयितव्ये भवतः। तयोश्च द्वयोः प्रतरयोः युग्मसङ्ख्याक श्रेणिमयत्वेन पञ्चमी षष्ठी चेत्येवं द्वे द्वे श्रेणी मध्यत्वेन पूर्वमुक्तवत् कथनीये। अर्थादस्मत्कल्पिते घने श्रेणीनां यत्शतकं वर्तते तस्मात् ४५-४६-५५-५६ इत्यङ्किताश्चतस्रः श्रेणयो घनमध्यत्वेन प्राप्ताः। आसां च सर्वासां श्रेणीनां युग्मसङ्ख्याक प्रदेशत्वेन पञ्चमषष्ठलक्षणौ द्वौ द्वौ प्रदेशावेव मध्यत्वेन यतः प्राप्येते, अतः कल्पितस्य घनस्य मध्यत्वेन पञ्चमप्रतरगतपञ्चमषष्ठश्रेणिगत ४४५-४४६-४५५-४५६ इत्यङ्किताश्चत्वारः प्रदेशाः, षष्ठप्रतरगतपञ्चमषष्ठश्रेणिगत ५४५-५४६-५५५-५५६ इत्यङ्किताश्च चत्वारः प्रदेशा इत्येवमष्टौ प्रदेशाः कथनीया एव । एवमेव लोकेऽपि ज्ञेयम्। एकरज्जुगतप्रदेशानां कृतयुग्मसङ्ख्याकत्वेन युग्मसंङ्ख्याकत्वाल्लोकस्यापि सर्वत्रयुग्मसङ्ख्याकत्वमेव । अर्थादूर्ध्वाधश्चतुर्दशरज्जुप्रमाणो य आयामस्तत्रापि प्रदेशानां युग्मसङ्ख्याकत्वम्, पूर्वापरैकरज्जुप्रमाणो दक्षिणोत्तरैकरज्जुप्रमाणश्च यो विष्कम्भस्तत्रापि प्रदेशानां युग्मसङ्ख्याकत्वमेव । अतो रत्नप्रभायां बहुसमभूभागेऽन्यूनाधिकैकरज्जुप्रमाणविष्कम्भे ये द्वे प्रतरे, ते लोकमध्यत्वेन विवक्ष्येते। तयोश्च द्वयोरपि प्रतरयोर्मध्यत्वेनोपर्युक्तवत् चतुर्णां चतुर्णा प्रदेशानां कथनमावश्यकमेव । अतो लोकमध्यत्वेन कथितो रुचको नैकप्रदेशमयः, अपि त्वष्टप्रदेशमय इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy