________________
श्रीअनुयोगद्वारसूत्रम् [सू०१६०]
१२३ (सू० १६०) से किं तं ओवणिहिया खेत्ताणुपुव्वी ? ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता ? तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।
उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी । अथौपनिधिकीं तां निर्दिदिक्षुराह - से किं तं ओवणिहितेत्यादि । अत्र व्याख्या पूर्ववत् कर्तव्या, नवरं तत्र द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, अत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति।
इह चोर्ध्वाधश्चतुर्दशरज्ज्वायतस्य विस्तरतस्त्वनियतस्य पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागः सम्पद्यते, तत्रास्यां रत्नप्रभायां ६बहुसमभूभागे मेरुमध्ये नभ:प्रतरद्वयेऽष्टप्रदेशो ६८रुचक: समस्ति, तस्य प्रतरद्वयस्य मध्ये
__तथापि विदिक्षु परमाणोः स्पर्शनाया निषेधमात्रेण न १-७ इत्यङ्कितयोर्नभःप्रदेशयोरवगाढस्यावक्तव्यकस्य निषेधसिद्धिरिति तदपि प्राप्यत एवेत्येवं यदि तत्प्राप्तिर्बहुश्रुतानां सम्मता, तदाऽवक्तव्यकद्रव्याण्यनानुपूर्वीद्रव्यापेक्षया प्रायस्त्रयोदशगुणानि देशोनानि प्राप्यन्ते इति वयं सम्भावयामः । तथाहि- यदि द्वितीयप्रतरगत '३८' इत्यङ्कितनभःप्रदेशमपेक्ष्य विचार्यते तदा, द्वितीयप्रतरगत ३२, ३३, ३४, ३७, ३९, ४२, ४३, ४४ इत्यङ्कितनभःप्रदेशसहकारेणाष्टाववक्तव्यकानि प्राप्यन्ते। तथा प्रथमप्रतरगत ७, ८, ९, १२, १३, १४, १७, १८, १९ इत्यङ्कितनभःप्रदेशसहकारेण नवावक्तव्यकानि प्राप्यन्ते । एवमेव तृतीय-प्रतरगत ५७, ५८, ५९, ६२, ६३, ६४, ६७, ६८, ६९ इत्यङ्कितनभःप्रदेशसहकारेण नवावक्तव्यकानि प्राप्यन्ते । ततश्च सर्वाणि मीलयित्वा ८ + ९ + ९ = २६ षड्विंशतिरवक्तव्यकानां प्राप्यते । यतश्चैतेष्ववक्तव्यकेषु द्वयोर्द्वयोर्नभःप्रदेशयोः सहकारः, अतस्त्रयोदशगुणितलोकाकाशप्रदेशराशितुल्यानि तानि प्राप्यन्ते। किञ्च पर्यन्तवर्तिप्रतरगततत्तन्नभःप्रदेशमपेक्ष्य यतो न सम्पूर्णा षड्विंशतिर्लभ्यतेऽतस्तानि देशोनानि त्रयोदशलोकाकाशप्रदेशराशितुल्यानि लभ्यन्त इति सिद्धम् । ततश्च त्रीण्यप्यल्पबहुत्वानि तदनुसारेण स्वयमभ्युह्यानि।
६७. बहुसमभूभागे इत्यादि। अयम्भावः-लोकाकाशो ब्रह्मदेवलोकभागे विष्कम्भतः पञ्चरज्जुप्रमाणः। तत्पञ्चरज्जुप्रमाणप्रतरादारभ्याधोऽभिमुखं क्रमशो विष्कम्भहानिर्भवति। तथाऽधोलोकस्य सर्वान्तिमप्रतरेऽयं लोको विष्कम्भतः सप्तरज्जुप्रमाणः । तत्प्रतरादारभ्योर्ध्वाभिमुखं क्रमशो विष्कम्भहानिर्भवति । एवमुभयतो हीयमानो लोको तथा हीयते यथा रत्नप्रभायां बहुसमभूभागे एकं नभःप्रतरमेकाकाशप्रदेशेनापि यथा न न्यूनं न वाऽधिकं स्यात्तथैकरज्जुप्रमाणविष्कम्भं प्राप्यते । एतत्प्रतराव्यवहिताधोवर्त्यन्यदप्येकं प्रतरं तथैवान्यूनाधिकैकरज्जुप्रमाणविष्कम्भं प्राप्यते। एते एव द्वे प्रतरे अत्राधिकृते।
६८. अष्टप्रदेशो रुचकः समस्तीति । ननु यद्यप्यूलोको देशोनसप्तरज्ज्वायतः, अधोलोकश्च साधिकसप्तरज्ज्वायतः। तथापि स्थूलव्यवहारेण रुचकस्य लोकमध्यत्वप्रसिद्धिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org