________________
श्रीअनुयोगद्वारसूत्रम् [सू०१६८,१६९]
१२७ (सू० १६८) तिरियलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (सू० १६९) से किं तं पुव्वाणुपुव्वी ? पुल्वाणुपुव्वी
जंबुद्दीवे लवणे धायइ-कालोय-पुक्खरे वरुणे । खीर-घय-खोय-नंदी-अरुणवरे कुंडले रुयगे ॥११॥ जंबुद्दीवाओ खलु निरंतरा, सेसया असंखइमा।
भुयगवर-कुसवरा वि य कोंचवराऽऽभरणमाईया(ई य) ॥१२॥ मर्यादया वर्तन्त इति समुद्रा:, प्रचुरजलोपलक्षिता: क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकमसङ्ख्येया भवन्ति, तत्र ७°समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावज्जम्बूवृक्षेणोपलक्षितो द्वीपो जम्बूद्वीपः, ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरित: समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वात्, एवं पुरस्तादपि यथासम्भवं द्रष्टव्यम्, धायइ कालोय त्ति, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षषण्डोपलक्षितो द्वीपो धातकीषण्डः, तत्परितोऽपि शुद्धोदकरसास्वाद: कालोद: समुद्रः, तं च परिक्षिप्य स्थित: पुष्करैः पद्मवरैरुपलक्षितो द्वीप: पुष्करवरद्वीपः, तत्परितोऽपि शुद्धोदकरसास्वाद एव पुष्करोद: समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो द्रष्टव्य: पुक्खरे त्ति, एवमुत्तरत्रापि, ततो वरुणे त्ति वरुणवरो द्वीपः, ततो वारुणीरसास्वादो वारुणोदः समुद्रः, खीरेति क्षीरवरो द्वीप:, क्षीररसास्वाद: क्षीरोद: समुद्रः, घय त्ति घृतवरो द्वीपः, घृतरसास्वादो घृतोद: समुद्रः, खोय त्ति इक्षुवरो द्वीपः, इक्षुरसास्वाद एवेक्षुरस: समुद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्रा: द्वीपसदृशनामानो मन्तव्या: । अपरं च स्वयम्भूरमणवर्जा: सर्वेऽपीक्षुरसास्वादा:, तत्र द्वीपनामान्यमूनि, तद्यथा- नन्दी समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवरः, अरुणावासः, कुण्डलवर:, शङ्खवर:, रुचकवर इत्येवं षड् द्वीपनामानि चूणौं लिखितानि दृश्यन्ते, सूत्रे तु नन्दी अरुणवरे कुंडले रुयगे इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अत: चूर्णिलिखितानुसारेण रुचकत्रयोदश:, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः । इदानीमनन्तरोक्तद्वीप-समुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणां तु नामाभिधानार्थमाह
जंबुद्दीवाओ खलु निरन्तरा सेसया असंखइमा। भुयगवर-कुसवरा वि य कोंचवरा-ऽऽभरणमाई य ॥१॥ त्ति । व्याख्या- एते पूर्वोक्ता: सर्वेऽपि जम्बूद्वीपादारभ्य निरन्तरा नैरन्तर्येण व्यवस्थिता:, न
७०. समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादाविति । नन्वधोलोके क्षेत्रानुपूर्वीनिरूपणे रत्नप्रभाया आदावुपन्यासे यत् प्रज्ञापकप्रत्यासन्नत्वं हेतुत्वेनोक्तं तदेवात्रापि कथ्यताम्, जम्बूद्वीपे लवणसमुद्राद्यपेक्षया प्रज्ञापकप्रत्यासन्नत्वस्य निराबाधं सत्त्वादिति चेत् ? न, धातकीखंडपुष्करवरद्वीपार्धवर्तिप्रज्ञापकापेक्षया प्रत्यासन्नत्वस्यासम्भवात् जम्बूद्वीपस्यादावुपन्यासस्याभावप्रसङ्गात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org