________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
आभरण-वत्थ-गंधे उप्पल-तिलये य पउम - निहि - रयणे ।
वासहर - दह - णदीओ विजया वक्खार- कप्पिंदा ||१३|| कुरुरु-मंदर-: - आवासा कूडा नक्खत्त - चंद सूरा य ।
देवे नागे जखे भूये य सयंभुरमणे य ॥ १४ ॥ सेतं पुव्वाणुपुव्वी । ( सू० १७० ) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- सयंभुरमणे य भूए य जाव जंबुद्दीवे । सेतं पच्छाणुपुव्वी ।
१२८
(सू० १७१) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी - एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी ।
(सू० १७२) उढलोगखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भाव:, ये तु शेषका भुजगवरादय इत ऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसङ्ख्याततमा द्रष्टव्या:, तथाहि - भुयगवर त्ति पूर्वोक्ताद् रुचकवराद् द्वीपादसङ्ख्येयान् द्वीप-समुद्रान् गत्वा भुजगवरो नाम द्वीप: समस्ति, कुसवर त्ति ततोऽप्यसङ्ख्येयाँस्तान् गत्वा कुशव नाम द्वीप: समस्ति, अपि चेति समुच्चये, कुंचवरो त्ति, ततोऽप्यसङ्ख्येयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीपः समस्ति, आभरणमाई यत्ति एवमसङ्ख्येयानसङ्ख्येयान् द्वीप-समुद्रानुल्लङ्घ्याऽऽभरणादयश्च आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामान एव भवन्तीत्युक्तमेवेति गाथार्थः । इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव केवलं क्वापि वाचनाविशेषे दृश्यते, टीका- चूर्ण्योस्तु तद्व्याख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति ।
ये
तानेवाभरणादीनाह- आभरणवत्थेत्यादिगाथाद्वयम्, असङ्ख्येयानाम् असङ्ख्येयानां द्वीपा - नामन्ते आभरण-वस्त्र-गन्धोत्पल-तिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भूरमणो द्वीपः, शुद्धोदकरसः स्वयम्भूरमण एव समुद्र इति गाथाद्वयभावार्थ: । तर्ह्यसङ्ख्येयानसङ्ख्येयान् द्वीपानतिक्रम्य ये वर्तन्ते तेषामेव द्वीपानामेतानि नामान्याख्यातानि, त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम् ? सत्यम्, लोके पदार्थानां शङ्ख-ध्वज-कलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्ते द्वीपा : प्राप्यन्त इति स्वयमेव द्रष्टव्यम्, यत उक्तम्- दीवसमुद्दा णं भंते! केवइया नामधिज्जेहिं पण्णत्ता ? गोयमा ! जावइया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधिज्जेहिं पण्णत्ता ) इति, सङ्ख्या तु सर्वेषामसङ्ख्येयस्वरूपा
(
उद्धारसागराणं अड्डाइज्जाण जत्तिया समया ।
दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया || १ || (जिन० संग्र० गा० ८० )
इति गाथाप्रतिपादिता द्रष्टव्या । तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी, व्यत्ययेन पश्चानुपूर्वी, अनानुपूर्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org