________________
३१० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवतिए खेत्ते पल्ले आइटे। से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति
परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया । कोसतिय अट्टवीसं धणुसय तेरंगुलऽद्धहियं ।।१।। (बृहत्क्षेत्र० ६)
इति गाथाप्रतिपादितमानः, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्य:, रत्नप्रभापृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः । स चैवंप्रमाण: पल्यो जम्बूद्वीपवेदिकान्त उपरि सप्रशिख: सिद्धार्थानां सर्षपानां भ्रियते । ततो णं तेहिमित्यादि, इदमुक्तं भवति- ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह- एस णं एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीप-समुद्रास्तै: सर्षपै; अप्फुण्णत्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्य: सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, तत: किमित्याह- पढमा सलाग त्ति, तत: शलाकापल्ये प्रथमशलाका एक: सर्षप: प्रक्षिप्यत इत्यर्थः, एवइयाणं सलागाणं असंलप्पा लोगा भरिय त्ति लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणशलाकापल्यरूपा गृह्यन्ते, ते चैक-दशशत-सहस्र-लक्ष-कोटिप्रकारेण संलपितुमशक्या असंलप्या:, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता: पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद् भवतीति भावः । ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं भृतमुच्यते ? सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्त दिदर्शयिषुराहयथा को दृष्टान्त: ? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथानाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यते, यच्च तदुत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवः सप्रशिखा: पल्या असत्कल्पनया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org