________________
श्रीअनुयोगद्वारसूत्रम् [सू०५०८] एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे, एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेजयं ण पावइ, जहा को दिद्रुतो? से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णं एगे आमलए भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थः । भावार्थस्त्वयम्पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रय: पल्या बुद्ध्या कल्प्यन्ते, तत्र प्रथम: शलाकापल्यो द्वितीय: प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्य:, तत्रानवस्थितपल्यो भृत: शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम्, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपा: समुत्क्षिप्यैको द्वीपे एक: समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितै: शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृतः परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुन: सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपा: प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तमोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, पुन: सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरण-रिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भृतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोद्धियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात् परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरण-रेचनक्रमेण शलाकापल्य: शलाकानां भ्रियते, ततोऽनवस्थित-शलाकापल्ययो तयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुद्धृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव न्यायेन प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्य: शलाकानां भरणीय:, शलाकापल्यस्य तूत्क्षेपप्रक्षेपविधिना प्रतिशलाकापल्य: प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्य: शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीप-समुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका प्रक्षिप्यते, तत: शलाकापल्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org