SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया । जो चिंतई सरीरे नत्थि अहं स इव(इध) होइ जीवो त्ति । न हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१।। ( ) इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धे:, हेत्वाभासश्चायम्, ज्ञानादेस्तद्गुणस्योपलब्धेः । उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईणं ।।१।। ( इत्यादि प्रागेवोक्तमिति । असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वात्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि धम्मा-ऽधम्मुवएसो कया-ऽकयं परभवाऽऽय-गमणं च । सव्वा वि ह लोयठिई न घडइ एगंतखणियम्मी ॥१॥ __) त्यादि । अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवात् । उक्तं च सव्वं सुन्नं ति जयं पडिवन्नं जेहि ते वि वत्तव्वा । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ॥१॥ ( ) त्यादि । उन्मार्गत्वं परस्परविरोध(धात्) स्थाण्वाद्याकुलत्वात् । तथाहिन हिंस्यात् सर्वभूतानि, त्रसानि स्थावराणि च । आत्मवत् सर्वभूतानि, य: पश्यति स धार्मिकः ॥१।। ( इत्याद्यभिधाय पुनरपि - षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभि: ।।१।। ( ) इत्यादि प्रतिपादयन्तीति । अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, तदुक्तम्सर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्तते ? । विषयादौ विपाको मे न भावीति विनिश्चयात् ॥१।। ( ) इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy