________________
३१९
श्रीअनुयोगद्वारसूत्रम् [सू०५२४,५२५]
(सू० ५२४) से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्वया- जत्थ णं ससमए परसमए आघविजइ जाव उवदंसिज्जइ । सेतं ससमयपरसमयवत्तव्वया ।
(सू० ५२५) (१) इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगम-ववहारा तिविहं वत्तव्वयं इच्छंति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं ।
(२) उज्जुसुओ दुविहं वत्तव्वयं इच्छति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविठ्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविहा वत्तव्वया ।
(३) तिण्णि सद्दणया (एग) ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया । कम्हा ? जम्हा परसमए अणटे अहेऊ असब्भावे अकिरिया उम्मग्गे अणुवएसे स्वसमय: परसमयश्च आख्यायते, यथा
आगारमावसंता वा, आरण्णा वा वि पव्वया । इदं दरिसणमावन्ना, सव्वदुक्खा विमुच्चती ॥१।। (सूत्रकृ० १।१।१९) त्यादि।
आगारं गृहं तत्राऽऽवसन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादय:, पव्वय त्ति प्रव्रजिताश्च शाक्यादयः, इदम् अस्मदीयं दर्शनं मतम् आपन्ना: आश्रिता: सर्वदु:खेभ्यो विमुच्यन्त इति । एवं यदा साङ्ख्यादय: प्रतिपादयन्ति तदेयं परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमय-परसमयवक्तव्यतोच्यते । ___अथ वक्तव्यतामेव नयैर्विचारयन्नाह- इयाणिं को नओ इत्यादि, तत्र नैगम-व्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहारस्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः । ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह - तत्थ णं जा सा इत्यादि, तृतीये वक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता, न त्रिविधेति । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त इति । त्रय: शब्दनया: शब्दसमभिरूद्वैवम्भूताः शुद्धतमत्वादेकां स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते । कस्मात् ? इत्याह- यस्मात् परसमयोऽनर्थः इत्यादि, इत्थं चेह योजना कार्या-नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादहेतुत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवाऽऽत्मेत्यनर्थप्रतिपादकत्वात्, आत्मनास्तित्वस्य चानर्थत्वमात्माऽभावे तत्प्रतिषेधानुपपत्तेः । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org