________________
श्रीअनुयोगद्वारसूत्रम् [सू०५२६,५२९]
३२१ (सू० ५२६) से किं तं अत्थाहिगारे ? अत्थाहिगारे- जो जस्स अज्झयणस्स अत्थाहिगारो । तंजहा
सावज्जजोगविरती १ उक्तित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१२३।। सेतं अत्थाहिगारे।
(सू० ५२७) से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । तं०-णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे ।
(सू० ५२८) से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्ववणियाओ ।
(सू० ५२९) से किं तं दव्वसमोयारे ? दव्वसमोयारे दुविहे पण्णत्ते। तं०-आगमतो य णोआगमतो य । जाव सेत्तं भवियसरीरदव्वसमोयारे।
यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमयवक्तव्यतेति वर्तते । एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्णयत्वादसत्त्वेनैते नया: प्रतिपद्यन्त इति भाव: । स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव । प्रोक्तं च महामतिना
नयास्तव स्यात्पदलाञ्छना इमे रसोपदिग्धा इव लोहधातवः ।
भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥१।। (बृहत्स्वयम्भू०) इत्यादि, सेयं वक्तव्यतेति निगमनम् । वक्तव्यता समाप्ता ।।
साम्प्रतमर्थाधिकारावसर:- तत्र यो यस्य सामायिकाद्यध्ययनस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च सावज्जजोगविरतीत्यादिगाथावसरे प्रागेव कृतमिति न पुन: प्रतन्यत . इति । वक्तव्यता-ऽर्थाधिकारयोस्त्वयं भेद:- अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति।
__ अथ समवतारं निरूपयितुमाह- से किं तं समोयारे इत्यादि। समवतरणं- वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतार: । स च नामादिभेदात् षोढा । तत्र नाम-स्थापने सुचर्चिते । एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्य:, यावद् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्त:, तद्यथा- आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे स्वकीयस्वरूपे समवतरन्ति वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति, निश्चयत: सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भाव:, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कट-कुड्य-देहली-पट्टादिसमुदायात्मके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org