________________
३२२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५३०) (१) से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे ? जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे तिविहे पण्णत्ते । तंजहा-आयसमोयारे परसमोयारे तदुभयसमोयारे । सव्वदव्वा वि य णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा आयभावे य ।
(२) अहवा जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तंजहाआयसमोयारे य तदुभयसमोयारे य । चउसट्ठिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं बत्तीसियाए समोयरति आयभावे य । बत्तीसिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सोलसियाए समोयरति आयभावे य । सोलसिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अट्ठभाइयाए समोयरति आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं चउभाइयाए समोयरति आयभावे य। चउभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अद्धमाणीए समोयरइ आयभावे य । अद्धमाणी आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणीए समोयरति आयभावे य । सेतं जाणयसरीर-भवियसरीरवतिरित्ते गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं बुध्मोदर-कपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति । ___आह-यद्येवं शुद्धः परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेविद्यमानत्वात्, सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः, वस्तुवृत्त्या तु द्विविध एव समवतार: । अत एवाह- अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्त:, तद्यथा- आत्मसमवतारस्तदभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्व चात्मवृत्त्यविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् ।।
चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायाम्, षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम्, अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायाम्, चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम्, एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवतारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org