________________
श्री अनुयोगद्वारसूत्रम् [सू०३५१]
२२३
(४) खहयरपंचेंदियतिरिक्खजोणियाणं०, गो० ! जह० अंगु० असं०, उक्को० धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु वि गमेसु तहा भाणियव्वं । गब्भवक्कंतियाणं जह० अंगु०, असं०, उक्कोसेणं धणुपुहत्तं; अपज्जत्तयाणं जहन्त्रेणं अंगु० असं०, उक्को० अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्को० धत्तं ।
(५) एत्थं संगहणिगाहाओ भवंति । तंजहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोहं तु धणुपुत्तं सम्मुच्छिम होइ उच्चत्तं ॥ १०१ ॥
साम्प्रतं विषधराद्युर:परिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्ववगाहना प्रोच्यते- तत्रौधिकोर: परिसर्पाणां बहिर्द्वीपवर्तिगर्भजसर्पानाश्रित्योत्कृष्टा योजनसहस्रम् १, सम्मूर्च्छनजानां योजनपृथक्त्वम् २, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभागः ३, पर्याप्तानां योजनपृथक्त्वम् ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामङ्गुलासङ्घयेयभागः ६, पर्याप्तानां योजनसहस्रम् ७, इत्युरः परिसर्पेषु सप्त स्थानानि ।
एवं भुजपरिसर्पेष्वपि गोधा-नकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे १ सामान्यगर्भजपदे २ पर्याप्तगर्भजपदे च ३ गव्यूतपृथक्त्वम्, सामान्यसम्मूर्च्छनजपदे ४, पर्याप्तसम्मूर्च्छनजपदे ५ च धनुः पृथक्त्वम्, शेषपदद्वयेऽङ्गुलासङ्घयेयभागः ६-७, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता ।
एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्रापर्याप्तसम्मूर्च्छजाऽपर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकम् अङ्गुलासङ्घयेयभागः, शेषेषु पञ्चसु स्थानेषु धनुः पृथक्त्वम्, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह - एत्थ संगहणिगाहाओ भवंति, तंजहा
जोअणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दुहं तु धणुपुहत्तं समुच्छिम होइ उच्चत्तं ॥ १ ॥ (
)
सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परत:, सम्मूर्च्छजअसंखेज्जगुणा ।। ८१ ।। तेइंदियणिव्वत्तिपज्जत्तयस्स जहण्णिया ओगाहणा संखेज्जगुणा ||८२ ।।... पंचिंदियणिव्वत्तिपज्जत्तयस्स उक्कस्सिया ओगाहणा संखेज्जगुणा ।।४-२-५-९४।। षट्खण्डागमोक्तैरेतैः सूत्रैरप्येतन्निश्चीयते यल्लब्धितः करणतश्च पर्याप्तकानां द्वीन्द्रियादीनां जीवानां जघन्याऽवगाहनाऽङ्गुलस्य सङ्ख्येयभागप्रमाणा भवतीति । यतश्चैतानि सूत्राणि ज्ञानावरणीयकर्मवेदकजीवक्षेत्रनिरूपणावसरे कथितानि, अतः पञ्चेन्द्रियपर्याप्तकोत्कृष्टावगाहनातया केवलिसमुद्घातप्राप्यमाणस्य सम्पूर्णलोकस्यात्रानुक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org