________________
३०६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (५) असंतयं असंतएण उवमिजति-जहा खरविसाणं तहा ससविसाणं । सेतं ओवमसंखा।
(सू० ४९३) से किं तं परिमाणसंखा ? परिमाणसंखा दुविहा पण्णत्ता ? तं०कालियसुयपरिमाणसंखा दिट्ठिवायसुयपरिमाणसंखा य ।
(सू० ४९४) से किं तं कालियसुयपरिमाणसंखा ? कालियसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पज्जवसंखा अक्खरसंखा संघायसंखा पदसंखा पादसंखा वृक्षात् पतद् भ्रश्यत् पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव नि:क्षीरं वृक्षवियोगादित्वलक्षणव्यसनप्राप्तं विनाशकालप्राप्तमिति । तामेव गाथामाह- जह तुब्भे इत्यादि । वृक्षात् पतता केनचिज्जीर्णपत्रेण किशलयानाश्रित्योक्तम्, किं तत् ? उच्यते, शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयानि ! अवहितानि भूत्वा, वृक्षात् तद् मल्लक्षणं पाण्डुपत्रं युष्माकम् अप्पाहेइ त्ति कथयति, किं तदित्याह- जह तुब्भे तह अम्हे त्ति यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्धिलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहार:, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौ तु हीलामतिर्विधेया, अनित्यत्वात् सकलसमृद्धिसम्बन्धानामिति भावः । ननु अलौकिकमिदं यत् पत्राणि परस्परं जल्पन्ति, सत्यमित्याह- नवि अस्थि गाहा सुगमा । नवरं वृक्षपत्रसमृद्ध्यसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः । तदेवं जह तुब्भे तह अम्हे इत्यत्र किशलयपत्रावस्थया पाण्डुपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात् सती पाण्डुपत्राणां तूपमेयभूता साऽवस्था भूतपूर्वत्वादसती, तुब्भे वि य होहिहा इत्यादौ तु पाण्डुपत्रावस्थया किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात् सती, किशलयदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत् सता उपमीयत इति तृतीयभङ्गविषयता संगच्छते । सुधिया तु यदि घटते तदाऽन्यथापि सा वाच्येति । चतुर्थभङ्गे असंतयं असंतएणेत्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा शशविषाणमप्यभावरूपं निश्चेतव्यम्, यथा वा शशविषाणमभावरूपं निश्चितमित्थमितरदपि ज्ञातव्यमिति भावः । एवं चोपमानोपमेययोरसत्त्वं स्फुटमेवेति ।
से किं तं परिमाणसंखा इत्यादि । संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि, तद्रूपा सङ्ख्या परिमाणसङ्ख्या । सा च कालिक-दृष्टिवादविषयत्वेन द्विविधा। तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पजवसंखा इत्यादि, पर्यवादिरूपेण परिमाणविशेषेण कालिकश्रुतं संख्यायत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org