________________
श्रीअनुयोगद्वारसूत्रम् [सू०४९५-४९८]
३०७ गाहासंखा सिलोगसंखा वेढसंखा निजुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुयखंधसंखा अंगसंखा । सेतं कालियसुयपरिमाणसंखा ।
(सू० ४९५) से किं तं दिट्ठिवायसुयपरिमाणसंखा ? दिट्ठिवायसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पज्जवसंखा जाव अणुओगदारसंखा पाहुडसंखा पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा पुव्वसंखा । सेतं दिट्ठिवायसुयपरिमाणसंखा। सेतं परिमाणसंखा ।
(सू० ४९६) से किं तं जाणणासंखा? जाणणासंखा जो जं जाणइ सो तं जाणति, तंजहा-सदं सद्दिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं कालनाणी, वेजो वेजियं । सेतं जाणणासंखा ।
(सू० ४९७) से किं तं गणणासंखा ? गणणासंखा एक्को गणणं न उवेति, दुप्पभितिसंखा । तंजहा-संखेजए असंखेजए अणंतए ।
(सू० ४९८) से किं तं संखेजए ? संखेज्जए तिविहे पण्णत्ते । तंजहा-जहण्णए भावः । तत्र पर्यवाः पर्याया धर्मा इति यावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुन: प्रत्येकमनन्तपर्यायत्वात् । एवमन्यत्रापि समासः कार्यः । नवरं सङ्ख्येयान्यकाराद्यक्षराणि, व्याद्यक्षरसंयोगरूपा: सङ्ख्येया: सङ्घाता:, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाथादिचतुर्थांशरूपा: सङ्ख्येया: पादाः, सङ्ख्येया गाथा:, सङ्ख्येयाश्च श्लोका: प्रतीता: एव, छन्दोविशेषरूपा: सङ्ख्येया वेष्टका: । निक्षेपनियुक्त्युपोद्घातनियुक्ति-सूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशा:, सङ्ख्येयान्यध्ययनानि, सङ्ख्येया: श्रुतस्कन्धा:, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या । एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादय: पूर्वान्तर्गता: श्रुताधिकारविशेषाः । सेत्तमित्यादि निगमनद्वयम् ।
से किं तं जाणणासंखा इत्यादि, जाणणा ज्ञानम्, संख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ? उच्यते, यो देवदत्तादिर्यच्छब्दादिकं जानाति स तज्जानाति, तच्च जानन्नसावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः । शेष पाठसिद्धम् ।।
से किं तं गणणसंखा इत्यादि । एतावन्त एते इति सङ्ख्यानं गणनसङ्ख्या, तत्र एगो गणणं न उवेति एकस्तावद् गणनं सङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्राय: प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदान-समर्पणादिव्यवहारकाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org