________________
३०८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं उक्कोसए अहण्णमणुक्कोसए । ___(सू० ४९९) से किं तं असंखेजए ? असंखेजए तिविहे पण्णत्ते। तंजहापरित्तासंखेजए जुत्तासंखेजए असंखेजासंखेजए । एकं वस्तु प्रायो न कश्चिद् गणयत्यतोऽ१२६संव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद् द्विप्रभृतिरेव गणनसङ्ख्या । सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा- सङ्खयेकमसङ्खयेयकमनन्तकम् । तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्येयकं
१२६. असंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरतीति । यद्वैकत्वस्यासङ्ख्यात्वेऽयमपि द्वित्वादिसङ्ख्याविलक्षणत्वलक्षणो हेतु यः । द्वित्वादयो ये सङ्ख्यापरिणामा लोकप्रसिद्धास्तेभ्य एकत्वपरिणामस्यानेकधा वैलक्षण्यं यतो वर्ततेऽतो नैकत्वस्य सङ्ख्यापरिणामत्वमिति । तच्चानेकधा वैलक्ष्ण्यमेवं प्रकारं ज्ञेयं• घटगतद्वित्वादयः सङ्ख्या अन्यघटादिरूपं पदार्थान्तरमपेक्षते, न त्वेकत्वपरिणामः । द्वित्वादयः सङ्ख्या अपेक्षाबुद्धिजन्या भवन्ति, अपेक्षाबुद्धिनाशे च नश्यन्ति, एकत्वपरिणामस्तु न तथा, स्वाश्रयभूतघटादेर्या कारणसामग्री तयैव जन्यत्वात्, घटकालं यावदवस्थाय घटनाश एव नश्यमानत्वाच्च । द्वित्वादयः सङ्ख्यापरिणामा यदपेक्षाबुद्धिजन्यास्तत्पुरुषप्रत्यक्षविषया एव भवन्ति, न सर्वेषां
प्रत्यक्षविषयाः, एकत्वपरिणामस्तु सर्वेषां प्रत्यक्षविषयः । • 'इमौ द्वौ' इति यदैकस्य द्वित्वप्रत्यक्षं भवति, तदैवान्यस्य 'न द्वौ, अपि तु त्रय इमे'
इत्यादिरूपेण द्वित्वाभावप्रत्यक्षमपि सम्भवति, न तथैकत्वस्य सम्भवः, एकत्वस्य सर्वदा भावात्, द्वित्वाद्यर्थमपि 'अयमेकः' 'अयमेकः' इत्यपेक्षाबुद्धेरपेक्षणाच्च ।।
एवञ्च द्वित्वादिसङ्ख्यापरिणामाद् एकत्वपरिणामस्य यतोऽनेकविधं वैलक्षण्यमतो नैकत्वस्य सङ्ख्यात्वमिति । ननु पूर्वं ‘से किं तं गणिमे ? गणिमे जण्णं गणिज्जति। तं जहा- एक्को दसणं सतं...' इत्यादिसूत्रे (सू.क्र.३२६) 'गणिमं सङ्ख्याप्रमाणमेकादि' इति हारिभद्रीयवृत्तौ ‘गण्यते सङ्ख्यायते वस्त्वनेनेति गणिममेकादि' इति हेमचन्द्रसूरिरचितवृत्ती चैकत्वस्य सङ्ख्यात्वमुक्तमेवेति चेत् ? सत्यं, विवक्षितस्य राशेर्यथा द्वित्रादिभि_नाधिक्यं सम्भवति तथैवैकेनापि सम्भवति, द्वित्रादीनां यथा २, ३ इत्याद्यङ्कस्थापना क्रियते तथैवैकस्यापि १ इत्यङ्कस्थापना क्रियत एव, दशगुणिता द्वित्रादयो यथा विंशतिस्त्रिंशदित्यादि रूपेण दशगुणाः संजायन्ते तथैव दशगुणित एककोऽपि दशरूपेण दशगुणः संजायत एव, तस्मादेकस्य द्वित्रादिभ्यः सत्यपि पूर्वोक्ते वैलक्षण्येऽनेकधा सादृश्यमपि सम्भवत्येव । अतस्तत्सूत्र एकस्यापि सङ्ख्याप्रमाणत्वमुक्तमित्यस्माकं प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org