________________
३२४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत आयभावे समोतरति, तदुभयसमोयारेणं ओसप्पिणि-उस्सप्पिणीसु समोयरति आयभावे य, ओसप्पिणि-उस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं पोग्गलपरियट्टे समोयरंति आयभावे य । पोग्गलपरियट्टे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरति आयभावे य; तीतद्धा-अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य। सेतं कालसमोयारे ।
(सू० ५३३) से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते। तंजहाआयसमोयारे य तदुभयसमोयारे य । कोहे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं माणे समोयरति आयभावे य। एवं माणे माया लोभे रागे मोहणिज्जे । अट्ट कम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, तदुभयसमोयारेणं छविहे भावे समोयरंति आयभावे य । एवं जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वदव्वेसु समोयरति आयभावे य । एत्थं संगहणिगाहात्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितम्, सोपयोगत्वात् स्थानाशून्यार्थं किञ्चिद् वयमेव निरूपयाम:- तत्र सामायिकं चतुर्विंशतिस्तव इत्याद्युत्कीर्तनविषयत्वात् सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति । तथा गणनानुपूर्त्यां च, तथाहि- पूर्वानुपूर्व्या गण्यमानमिदं प्रथमम्, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् । नाम्नि च औदयिकादिभावभेदात् षण्णाम प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावनाम्नि समवतरतीति । आह च भाष्यकार: -
छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥१।। (विशेषावश्यकभा० ९४५) प्रमाणे च द्रव्यादिभेदैः प्राग्निर्णीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति । उक्तं चदव्वाइ चउन्भेयं पमीयए जेण तं पमाणं ति । इणमज्झयणं भावो त्ति भावमाणे समोयरइ ।।१।। (विशेषावश्यकभा० ९४६)
भावप्रमाणं च गुण-नय-सङ्ख्याभेदतस्विधा प्रोक्तम्, तत्रास्य गुण-सङ्ख्याप्रमाणयोरेवावतारः । नयप्रमाणं तु यद्यपि- आसज्ज उ सोयारं नए नयविसारओ बूया (आवश्यकनि० ७६१) इत्यादिवचनात् कश्चिन्नयसमवतार उक्त: तथापि साम्प्रतं तथाविधनयविचाराभावाद् वस्तुवृत्त्याऽनवतार एव । यत इदमप्युक्तम्- मूढनइयं सुयं कालियं तु न नया समोयरंति इह (आवश्यकनि० ७६२) मित्यादि ।
नि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org